________________
Shri Mahavir Jain Aradhana Kendra
www.kobarth.org
Acharya Shri Kailassagarsuri Gyanmandir
___ यदि चाधिकमासो गणनायां गण्यते तदा चातुर्मासिक-सांवत्सरिकप्रतिक्रान्योरभ्युत्थानक्षामणासु "चउण्हं मासाणं, अट्ठण्हं पक्खाणं,
वीसुत्तरसयराइंदियाणं" तथा "बारसण्हं मासाणं, चउवीसण्हं पक्खाणं, तिणिसयसद्विराइंदियाणं" इत्येतदागमोक्तपाठस्थाने |"पंचण्हं मासाणं, दसण्हं पक्खाणं, पण्णासुत्तरसयराइंदियाणं" तथा "तेरसण्हं मासाणं, छबीसण्हं पक्खाणं, तिण्णिसयनउइ
राइंदियाणं" इतिरूपः कल्पितपाठो वक्तव्यः स्यादिति चेत् ? न, जल्पनमेतदागमज्ञानाकौशलमेव व्यनक्ति तव, यतो न कुत्राप्यागमे प्रोक्तमेतत् , यदुत-चान्द्रोऽभिवर्द्धितो वा यः कोऽपि वर्षो भवतु, सर्वत्र तुल्य एव पाठोऽभ्युत्थानक्षामणासु पठनीयः, भवेदेवं चेत्वाप्यागमे तर्हि किं |न दयते भवता?, अस्मदृष्टिपथे तु न काप्यायातं, केवलं हारिभद्रीयावश्यकवृत्तिप्रोक्तं “एगस्स पक्खस्स पण्णरसण्हं दिवसाणं, पण्ण| रसण्हं राईणं" इत्येतं पाक्षिकपाठमनुसृत्यैव चातुर्मासिक-सांवत्सरिकयोरपि पाठकल्पनैवाहर्निशं विधीयते सर्वैरपि गच्छवासिभिः । अपि च त्वामेव पृच्छ्यते, यदुत-तीर्थकरैः सद्भूतवस्तुप्ररूपणमुपदिष्टं वाऽसद्भूतवस्तुप्ररूपणं? । चेत्सद्भूतवस्तुप्ररूपणमुपदिष्टं तर्हि जातेष्वपि वस्तुत| स्त्रयोदशसु मासेषु षड्विंशतिषु च पक्षेषु, जल्पितेष्वपि च स्वास्येनैव प्रतिपाक्षिकं त्रिस्त्रिीरं “एगस्स पक्खस्स” इत्यादिपाठेन सद्भूतगण| नात्मकेषु षड्विंशतिषु पक्षेषु चातुर्मासिकसांवत्सरिकयोरेकं मासं द्वौ च पक्षावुड्डाय्य "चउण्हं मासाणं, अढण्हं पक्खाणं-बारसण्डं मासाणं, चउबीसण्हं पक्खाणं" इत्यादिजल्पनं किं सद्भूतवस्तुप्ररूपणं ? उतासद्भूतवस्तुप्ररूपणं ? इति स्वयमेव त्वं चक्षुषी निमील्य विचारय ।।
नन्वेवं तर्हि तिथीनां वृद्धौ जातेष्वपि षोडशसु रात्रिन्दिवेषु वृद्धितिथिं सम्मिल्य "सोलसण्हं दिवसाणं" इत्यादिकमभणित्वा कथं “पण्णरसण्हं दिवसाणं" इत्यायेव भण्यते ? इति चेदिदमपि तेऽनुपासितगुरोर्वचो न विद्वज्जनमनांसि रञ्जयति, यतो यदैकस्मिन्नेव पक्षे तिथेवृद्धिर्हानिश्चापि भवति, यद्वा एकस्मिन् पक्षे वृद्धिरन्यस्मिंश्च पक्षे हानिर्भवति तदा तां वृद्धितिथिं गणयित्वैव तु "पण्णरसण्हं दिवसाणं"
For Private And Personal Use Only