________________
Shri Mahavir Jain Aradhana Kendra
www.kobasrth.org
Acharya Shri Kailassagarsuri Gyanmandir
SEXOXOXOXOXOXOXOXOXO-KO-KO-Ka
|श्रावणमासे शुक्लपक्षे दशमी वृद्धेरादिः, माघमासे बहुलपक्षे प्रतिपत् क्षयत्यादिः। चतुर्थे संवत्सरे श्रावणमासे बहुलपक्षे सप्तमी वृद्धेरादिः, माघमासे बहुलपक्षे त्रयोदशी क्षयस्यादिः। पञ्चमे संवत्सरे श्रावणमासे शुक्लपक्षे चतुर्थी वृद्धेरादिः, माघमासि शुक्लपक्षे दशमी क्षयस्यादिः ॥ सम्प्रत्युपसंहारमाह-एवं तु पोरिसीए, बुड्डिखया होति णायबा ॥ ३७४ ॥
वृत्तिः-'एवं' उक्तेन प्रकारेण 'पौरुष्यां' पौरुषीविषयौ वृद्धिक्षयौ यथाक्रमं दक्षिणोत्तरायणेषु वेदितव्यौ ॥” इत्यादि ६ एतेन सिद्धं यदुत-'सूर्यचारेऽप्यधिकमासो न गणित' इति प्रलपनं पहिलत्वप्रकटनप्रायमेवेति । [ज्योतिष्करण्डकवृत्तौ ।
धनकलान्तरादिष्वपि न कोऽपि श्रावणभाद्रपदाद्यभिवद्धितमासद्वयं यावदेकत्र द्रविणं रक्षित्वा भृतिं वा कृत्वाऽप्येकस्यैव मासस्य कलान्तरं (व्याज) वेतनं वा ददाति गृह्णाति च, किन्तु मासद्वयस्यैव सर्वे ददति गृह्णन्ति च, ततः किं कारणं पर्युषणाराधनेऽधिकमासस्यागणनायाः ।।
न च वाच्यं-नपुंसकोऽधिकमासः सर्वेष्वप्युत्तमकार्येषु वर्जितस्ततः कथं सर्वोत्तमं पर्युषणापर्वाराधनं तत्र विधेयं ? इति, यतो न जैनसिद्धान्ताभिमता नपुंसकताऽधिकमासस्य, किन्तु लौकिकसिद्धान्ताऽभिमता। साऽपि सांसारिकेषु विवाहादिकृत्येषु, न तु धार्मिकेषु |जपस्तपःप्रभृतिषु । तत्र तु तस्य पुरुषोत्तमेत्याख्या, या जैनैस्तीर्थकरेषु निवेश्यते, तां समर्प्य विशेषतो धर्मक्रियाकरणमेव निर्दिष्टमस्ति, पश्यतामेतदर्थनिवेदका एते वक्ष्यमाणाः श्लोकाः- "अस्मै समर्पितास्सर्वे, ये गुणा मयि संश्रिताः। पुरुषोत्तमेति मन्नाम, प्रथितं लोकवेदयोः॥९॥ तदप्यस्मै मया दत्तं, तव तुष्यै जनार्दन ! । अहमेवास्य सञ्जातः, स्वामी च मधुसूदनः॥१०॥ युग्मम् ॥ एतन्नाम्ना जगत्सर्व, पवित्रं च भविष्यति । मत्सादृश्यमुपागम्य, मासानामधिपो भवेत् ॥११॥ जगत्पूज्यो जगद्वन्द्यो, मासोऽयं तु भविष्यति । पूजकानां च सर्वेषां, दुःखदारियखण्डनः ॥ १२॥xx सर्वसाधनतः श्रेष्ठः, सर्व
साः सर्वध्वत्युत्तम कार्य सिद्धान्ताऽभिमता । साधम या विशेषता
For Private And Personal Use Only