________________
Shri Mahavir Jain Aradhana Kendra
www.kobairth.org
Acharya Shri Kailassagarsuri Gyanmandir
SXEXOXOXOXOXOXOXOXO-KO-KOK
ननु स्थविरकल्पिकानां साधूनां नवकल्प एव विहारः सर्वत्रागमे प्रोक्तः, न कुत्राप्यधिकमासं गणयित्वा दशकल्पः, यद्यधिकमासोx | गणनीय एव स्यात्तदा कथमभिवर्द्धिते वर्षे दशकल्पो नोक्तः ? इति चेत्सत्यं, परं यथा ऋषभवीरजिनजननीभ्यां प्रथमं वृषभस्य सिंहस्य च स्वप्ने दृष्टे सत्यपि बाहुल्यापेक्षया गजस्य वर्णनमकार्षः प्राकू श्रीभद्रबाहुस्वामिपादाः, तथा नवकल्पविहारेऽपि बोध्यं । नहि पौषाद्यभिवर्द्धितमासद्वयेऽप्येकत्रैवावस्थानं प्रतिपादितं काप्यागमे साधूनां, चेत्प्रतिपादितं भवेत्तदा किं न दर्यते भवता । ___ न च वाच्यं “आसाढे मासे दुपया" इत्यादिसूर्यचारेऽप्यधिकमासो न गणित इति, यतः सूर्यचारस्सूर्यगतिमाश्रित्य प्रवर्त्तते, पक्षादिव्यवहारस्तु चन्द्रगतिमाश्रित्य, ततः कथं चन्द्रगतिनिष्पन्नव्यवहारागतस्याधिकमासस्य पृथग्गणनं तत्रोचितं ? इति स्वयमेव विमर्शनीयम् । __ननु "अंगुलं सत्तरत्तेणं, पक्खेणं च दुरंगुलं । वहुए हायए वा वि, मासेणं चउरंगुलं ॥१॥” इत्युत्तराध्ययनागमोक्तक्रमेण तु X| प्रथम एव पौषे पादचतुष्टयस्य पूर्तिः स्यात्ततः कथं द्वितीयः पौषः सूर्यचारे गणनायां गणित इति मन्तुं शक्यते ? इति चेदहो ते आगमा|भिप्रायज्ञता !!, नहि "अंगुलं सत्तरत्तेणं" इत्याद्यागमवाक्यं सप्तरात्रेणाङ्गुलस्यावश्यम्भावेन हानिर्वृद्धिश्च भवतीति निश्चायकं, किन्तु प्रतिपादितेऽप्यानॊदिखात्यन्तं नक्षत्रदशकं यावद्विद्युद्गर्जितादिभिरखाध्याये तथाविधनक्षत्रपरिज्ञानशून्यानां बोधाय यथा “अह केसि पि साहूर्ण तहाविहं नक्खत्तपरिण्णाणं न हवइ, तओ आसाढचउम्मासाओ कत्तियचउम्मासं जाव विजुगजिएसु विन असज्झाओ" इत्येष नियमो विहितः शास्त्रकारैस्तथैव तथाविधायनपरिज्ञानशून्यानां बोधाय "अंगुलं सत्तरत्तेणं” इति नियमो विहितः, वस्तुतस्तु
पौरुषीप्रमाणानयने दक्षिणोत्तरायणक्रमेणैवाङ्गुलानां वृद्धिोनिश्चापि भवति, कथमन्यथा साढेस्त्रिंशदहोरात्रैरेकत्रिंशवा च तिथिभिश्चतुरङ्गुलानां X वृद्धि निश्च प्रोक्ता स्यात् , न चैतदनागमिकं, ज्योतिष्करण्डकवृत्त्यादौ तथैवोक्तत्वात् , तथाहि
For Private And Personal Use Only