________________
Shri Mahavir Jain Aradhana Kendra
www.kobasirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पर्युषणा०x __ अपि च "चतुर्मासप्रमाणस्य वर्षाकालस्य” इति समवायाङ्गवृत्तिवाक्यास्पष्टं प्रतीयते यत्समवायाङ्गपाठश्चतुर्मासप्रमाणवर्षाकालाश्रित कल्पार्थ- एव, न तु पश्चमासिकवर्षाकालाश्रितः । तथा च पञ्चमासिके वर्षाकाले तत्पाठस्य पुरस्करणं न कथमपि युक्तियुक्तं । यत्तु कश्चिद भिवर्द्धिते वर्षे बोधिन्याः |विंशत्या दिनैः सांवत्सरिकप्रतिक्रमणादिकृत्यविशिष्टाया गृहिज्ञातपर्युषणायाः करणे पर्वणोऽनयत्यं प्रलपन् “तत्थ णं बहवे भवणवइ-वाणव्या०९/*मंतर-जोइसिअन्वेमाणिआ देवा चाउम्मासिअपाडिवएसु संवच्छरेसु अ अण्णेसु अ बहुसु जिणजम्मण-निक्खमण-नाणुप्पत्ति॥१७६॥
परिनिवाणमाइएसु अ देवकज्जेसु० xx अट्टाहियरूवाओ महामहिमाओ करेमाणा पालेमाणा विहरंति" इति जीवाभिगमोक्तामष्टाहिका देवादयः क कुर्युरिति धामवलम्बते तदतीवासङ्गतं, यतो न ते देवादय एवंविधा अविबुधाः, ये कस्मिन् वर्षे कतिभिर्दिनै|रष्टाहिका विधेयेतिमात्रस्यापि ज्ञातारो न भवेयुः, यदि चैवमपि ते देवादयः सन्दिग्धा भवेयुस्तदा द्वादशत्रयोदशमासात्मकेष्वब्देषु त्वशक्यैवासन्दिग्धता तेषां, ततोऽयुक्तेयमाश्नका, ते तु संविज्ञाः सन्तः स्वत एव यथायोग्यमवसरे विदधति । ___न चात्र "जइ फुल्ला कणियारया, चूअग! अहिमासयम्मि घुट्ठम्मि । तुह न खमं फुल्लेउ, जइ पच्चंता करिति डमराई ॥१॥” इत्यावश्यकनियुक्तिगाथायाः पुरस्करणं युक्तियुक्तं, यतोऽयं दृष्टान्त औपदेशिकतया विन्यस्तो नियुक्तिकारैः, न पुनः सैद्धान्तिकमन्तव्यतया। चेदेष दृष्टान्तः सैद्धान्तिकमन्तव्यतयैव विन्यस्त इति स्वीक्रियते तर्हि "दीहरफणिंदनाले, महिहरकेसरदिसामहदलिल्ले । ओपियइ कालभमरो, जणमयरंदं पुहवीपउमे ॥१॥” इत्येतद्वैराग्यशतकगाथाप्रामाण्यात्सहस्रनागशीर्षप्रतिष्ठितत्वं पृथिव्याः |स्वीकार्य स्यात्तव । किञ्च-भो भाद्रविक! त्वयाऽन्यैश्चापि त्वत्सुहृदैः किं न भक्षितानि कदाऽपि प्रथमेषु चैत्र-वैशाखादिषु पकान्यपक्कानि *वाऽऽम्रफलानि ?, येनैवं स्वपहिलत्वं प्रकटयन्नुपहास्यास्पदं भवसि, अस्तु ।
सूत्र ८ पर्युषणासामाचार्या चतुर्मासप्रमितवर्षाकालाश्रितत्वमेव समवायाङ्गपाठस्य
॥१७६॥
For Private And Personal Use Only