________________
Shri Mahavir Jain Aradhana Kendra
www.kobasrth.org
Acharya Shri Kailassagarsuri Gyanmandir
ननु भवत्वेवमेवेति चेत्तर्हि कथं द्विपदसचित्तद्रव्यचूलारूपतीर्थङ्करशिरस्थं द्वादशाङ्गुलप्रमितमुष्णीषं सम्मील्य विंशत्यधिकशताङ्गुलोच्चत्वं प्रतिपाद्यते ?, कथं वा मेरुचूलामिव सप्तरज्वात्मकस्योर्द्धलोकक्षेत्रस्य चूलारूपां लोकारवर्तिनीमीपत्प्राग्भारां पृथिवीमूर्द्धलोकादहिर्न मन्यन्ते ? कथं वा मेरुचूलां लक्षयोजनाद्बहिर्मन्यन्ते ? भवद्भिः, कथं च दशवैकालिकस्य भावचूलारूपं चूलिकाऽध्ययनद्वयं गणनायां गणयित्वा पञ्चदशदिनात्मकं योगोद्वहनं क्रियते कार्यते च?, भवन्मतेन तु त्रयोदशदिनात्मकमेव कर्त्तव्यं स्यात् , तथा आचाराङ्गद्वितीय श्रुतस्कन्धस्य तु योगोद्वहनं सर्वथाऽकर्त्तव्यमेव स्यात् , सर्वत्रापि तत्र चूलात्वस्य विद्यमानत्वात् । सत्यपि चूलात्वे सर्वत्र यदि न प्रतिपाद्यते द्वादशाङ्गुलप्रमाणमुष्णीषमगणयित्वाऽष्टाधिकशताङ्गुलोचत्वं तीर्थकृतां, न मन्यते ऊर्द्धलोका(हिर्वतित्वमीषत्प्राग्भारायाः लक्षयोजनान्तर्गतत्वमेव वा मेरुचूलायाः, न स्यज्यते च चूलिकाऽध्ययनानां योगोनं, तदा किमपराद्धं कालचूलिकयैवैकया भवतां ?, येन तां गणनाया बहिष्क्रियते, कश्चायं 'अर्द्धजरतीयो' न्यायः?, यत्सर्वत्रापि चूलात्वेन समत्वे सत्यप्येकत्र गणनायां गणनमन्यत्र नेति, युक्त्या विचार्यमाणे नायं सङ्गतिमङ्गति। न च सिद्धान्तोक्त्याऽपि युक्तत्वं सञ्जाघटीति, यतो "गोयमा! अभिवड्डियसंवच्छरस्स छब्बीसाई पबाई" इत्यादिसूर्यप्रज्ञप्तिप्रभृतिशास्त्रप्रमाणैः स्फुटं प्रतीयते | यत्तीर्थकृद्गणधरपूर्वधरादिसर्वमान्यप्राचीनपुरुषेषु न केनाप्यधिकमासो गणनाबहिष्कृतः, नैतावन्मात्रमेव, किन्तु पर्युषणादिनगणनायामपि
"सीसो पुच्छति-कम्हा अभिवडियवरिसे वीसदिणा ?, उच्यते-जम्हा गिम्हे चेव सो मासो अतिकतो, तम्हा वीसदिणा" इति | निशीथचूर्णिवाक्यात्तथा “ज[इति अधिमासगो पडितो तो वीसतिरायं गिहिणातं ण कजति, किं कारणं?, एत्थ अधिमासगो
चेव मासो गणिज्जति, सो वीसाए समं सवीसतिरातो मासो भण्णति चेव” इति बृहत्कल्पचूर्णिवाक्याञ्च परिस्फुटं ज्ञायते यन्नेष्टोऽभूत्प्राचीनाचार्याणामधिकमासस्य गणनाबहिष्कारः, कथमन्यथा ग्रीष्मकालातीतमधिकमासं सम्मील्य पञ्चाशद्दिनगणनां परिपूरयेयुः ।
EXOXOXOXOXOXEXOXOXO-KOKO
For Private And Personal Use Only