________________
Shri Mahavir Jain Aradhana Kendra
www.kobafirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्वान तथा पर्युषण, कुतन धरणावात भाद्र
FoXXXXXXXXX
गृहिज्ञाताज्ञाताभ्यामन्यस्तृतीयो भेदः समुपलभ्यते पर्युषणायाः, खानुयायिनो दृष्टिरागिणश्च जल्पन्तु किश्चित्, परं सर्वमान्यशास्त्रप्रमाणशून्यत्वान्न तत्प्रमाणमर्हति ।। | ननु निशीथचूादिषु शास्त्रेषु यत्र कापि पर्युषणानिरूपणं तत्र भाद्रपदविशेषितमेव, न पुनः काप्यभिसावर्द्धितवर्षे श्रावणविशेषितमिति चेत् ? अहो ते वैदग्ध्यं !!, कुतः शिक्षितमेतत् यन्निशीथचूादिष्वभिवर्द्धितवर्षाश्रितं पर्युषणापर्वनिरूपणं, न चन्द्रवर्षाश्रितं, यत्र चाब्दे एकेन घस्रेणाग्विहिता पर्युषणा कालकाचार्यः, स च चन्द्रवर्षों नाभूदित्यपि च कथं ज्ञातं ?, चेचन्द्रवर्ष एव स भवेत्तदा किमयुक्तं भाद्रपदविशेषितं पर्युषणापर्वनिरूपणं, यतस्तत्र त्वेकमुखा एव सर्वेऽपि शास्त्रकाराः पञ्चाशता दिनः सांवत्सरिकप्रतिक्रमणादिकृत्यविशिष्टपर्युषणापर्वनिरूपणे, पञ्चाशद्दिने तु चान्द्रे वर्षे भाद्रपद एवायाति, ततश्च कथं चूर्णिकारास्तत्र श्रावणविशेषितं निरूपयेयुः ? इति नेत्रे निमील्य विमृश । अपि च निशीथचूादिषु यनिरूपणं तच्चरितानुवादेन, न तु विधिवादेन, ततश्चरितानुवादं पुरस्कृत्य विधिवादस्य तिरस्करणं वक्तुः पृथुस्थूलबुद्धेरेवानुमापकम् । AL किश्च-चरितानुवादेन बाहुल्येन वा यत्र कुत्र निरूपितं भाद्रपदविशेषितमेव सांवत्सरिकप्रतिक्रमणादिकृत्य
विशिष्टं पर्युषणापर्व स्वीक्रियते चेत्तदा शैलकज्ञातोक्तेन-"तते णं से पंथए कत्तियचाउम्मासियंसि कयकाउस्सग्गे देवसियं पडिक्कमणं पडिकंते चाउम्मासियं पडिकमिउं कामे सेलयं रायरिसिं खामणऽट्टयाए सीसेणं पाएसु संघद्वेइ" इत्यनेन पाठेन द्वाविंशतिजिनसाधूनामपि पाक्षिकादीनि प्रतिक्रमणानि कर्त्तव्यतया स्वीकार्याणि स्युस्तत्तु भाद्रविकैरपि नेष्यते,
पर्यु.क.३०
For Private And Personal use only