________________
Shri Mahavir Jain Aradhana Kendra
www.kobasrth.org
Acharya Shri Kailassagarsuri Gyanmandir
पर्युषणा० अथ कोऽर्थः पर्युषणेति शब्दस्य ? इति चेदुच्यते-परि'सामस्त्येन 'उषणं' वसनं पर्युषणा । सा हि द्विविधा- सूत्रं८ कल्पार्थ-X गृह्यज्ञाता गृहिज्ञाता च । तत्र गृह्यज्ञाता सा-यस्यां वर्षायोग्यपीठफलकाद्यवाप्तौ कल्पोक्ता द्रव्यक्षेत्रकालभाव- पर्युषणाबोधिन्याः रूपा स्थापना क्रियते । सा चोत्सर्गत आषाढपूर्णिमायामेव, अपवादतस्तु योग्यक्षेत्राद्यभावे पञ्चपञ्चदिनवृद्ध्या सामाचायाँ व्या०९ श्रावणकृष्णपश्चमीदशम्यादिदशपर्वतिथिक्रमेण यावद्भाद्रपदकृष्णामावास्यायामवश्यं विधेया। तथा चोक्तं- पर्युषणाश
X"आसाढपुणिमाए पजोसविंति, एस उस्सग्गो, सेसकालं पजोसविताणं सबो अववाओ" इति निशीथचूर्णिदशमोद्देशके । गृहिज्ञाताव्दार्थस्तस्य ॥१७४॥
तु सांवत्सरिकप्रतिक्रमणादिकृत्यविशिष्टैव भवति । सा च "अभिवड्डियम्मि वीसा, इयरेसु सवीसइमासो" इति कल्प- द्वैविध्यम् नियुक्तिवाक्यात्तथैव-"अभिवड्डियवरिसे वीसतिराते गते गिहिणातं करेंति, तिसु चंदवरिसेसु सवीसतिराते मासे गते गिहिणातं करेंति" इति निशीथचूर्णिवाक्याचाभिवर्द्धिते वर्षे विंशत्या दिनैः श्रावणशुक्लपञ्चम्यां, चान्द्रे च वर्षे पञ्चाशता दिनैर्भाद्रपदशुक्लपञ्चम्यां विधेयेति प्रवृत्तिःप्रागजैनटिप्पनकसमयेऽभूत्, साम्प्रतंतु जैनटिप्पनकस्य सम्यग्ज्ञानाभावाल्लौकिकटिप्पनकेषु यः कोऽपि मासो वर्द्धतां, परमाषाढचातुर्मासिकदिनात्परतः पञ्चाशतैरेव दिनैः सांवत्सरिकप्रतिक्रमणादिकृत्यविशिष्टा गृहिज्ञातपर्युषणा विधेयेति वृद्धाचार्यसम्मतं । यदुक्तं तपागच्छीयैरेव *श्रीकुलमण्डनसूरिभिः खकृतायां कल्पावचूर्या-"गृहिज्ञाता तु सा-यस्यां सांवत्सरिकातिचारालोचनं १, लुश्चनं २,x
॥१७४॥ पर्युषणायां कल्पसूत्रकथनं ३, चैत्यपरिपाटी ४, अष्टमं तपः ५, सांवत्सरिकं प्रतिक्रमणं ६, च क्रियते" इति । | न वक्तव्यं "अभिवड्डियम्मि वीसा" इत्यादीनि शास्त्रवाक्यानि गृहिज्ञातमात्रापेक्षिकाणीति, यतो न काप्यागमे
KOLKOKKO-KO-K
For Private And Personal Use Only