________________
Shri Mahavir Jain Aradhana Kendra
www.kobairth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीभद्रबाहुभिः, खमैः कल्याणको हि सः॥११॥ प्रोक्तः पञ्चाशके गों, यथा कल्याणरूपकः । पुनरत्र तथा प्रोक्तः, त्रिशलोदरगो हि सः॥१२॥ सुष्टु प्रोक्तं हि कल्याणं, जिनवल्लभसूरिभिः । दुष्टमुक्तमकल्याणं, त्वत्पूज्यद्वेष्यता हि सा ॥१३॥ प्रोक्तः पञ्चाशके गर्भः, कल्याणफलसूचकः । कल्पसूत्रेऽपि सः खनैः, कल्या
णफलसूचकः ॥१४॥ सूत्रार्थमपरं नास्ति, येनाकल्याणकं भवेत् । धृष्टा ब्रुवन्ति मूढाश्च, कर्मबन्धनहेतवे al॥१५॥ देवानन्दोदराद्गर्भ-स्त्रिशलाकुक्षि(धारणात् )मोचनात् । ज्ञेयो गर्भो यथा पूर्व, तथा कल्याणको हि सः
॥१६॥ हरणं त्रिशलाकुक्षी, विभोर्न मन्यते तदा। कल्याणकानि पञ्च स्या-दन्यथा तु षडेव हि ॥१७॥ हरणं त्रिशलाकुक्षौ, मन्यन्ते श्वेतवाससः । दिगम्बरा न मन्यन्ते, देवानन्दोदराद्विभोः ॥१८॥ मातृकुक्ष्यागतः सार्वः, खमैः कल्याणसूचकः। त्रिशलाकुक्षिगो गर्भो, नास्त्यकल्याणको हि सः ॥१९॥ "पंच महाकल्लाणा (परमश्रेयांसि ), सवेसि जिणाण हवंति णियमेण । भुवणऽच्छेरयभूया, कल्लाणफला य जीवाणं ॥३०॥ गम्भे (गर्भाधाने)
- यत्तु "जो न सेस सूरीणं, लोयणपहे वि वच्चई" इत्यनेन गणधरसाद्धशतकगाथाशकलेन श्रीमद्धरिभद्रसूर्यभयदेवसूर्यादीनां हीलनाकरणरूपासदोषोद्भावनं | जिनवल्लभसूरेस्तत्तु तदुद्भावयितुरेवानाघ्राततदर्थगन्धत्वाभिव्यजकं, यतः "यो न शेषसूरीणां-अशातसिद्धान्तरहस्यानामित्यर्थः, लोचनपथेऽपि-दृष्टिमार्गेऽपि, आस्तां श्रुतिपथे, ब्रजति-याति" इत्यनेन तद्वृत्तिवाक्येन स्पष्टं तत्कालवर्तिवैद्यकज्योतिष्कमन्त्राद्यारम्भप्रसक्तचैत्यवासिसूरीणामेव गर्भापहारकल्याणकान| मिज्ञत्वं ज्ञाप्यते, न तु हरिभद्रसूर्यादीनां प्रवचनविदां, तेषां तु "उच्यते पुनर्जिनमतझैर्भगवत्प्रवचनवेदिभिः" इत्यनेन गणधरसार्द्धशतकवृत्तिवाक्येनैव स्फुटतरं
प्रतिपाद्यते तज्ज्ञातृत्वमुपदेष्टुत्वं च, प्रकारान्तरेण गर्भाधानरूपत्वादेव गर्भापहारस्य "गब्मे जम्म" इत्यादिना गृहीतत्वात् "कल्लाणफला य जीवाणं" इत्येतत्तत्कृत| कल्याणकलक्षणस्यात्रोपलभ्यमानत्वाच, दर्शयन्तु-किमकल्याणफलं सनातं जायते वा गर्भापहारदिनमालम्ब्य तपश्चर्यादिकर्तृणां जगज्जीवानाम् ।
For Private And Personal Use Only