________________
Shri Mahavir Jain Aradhana Kendra
www.kobefith.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रं २ अकल्याणकवादनिरासे गर्भापहारशब्दार्थः
पर्युषणा० | उत्तरमत्र-विप्रनीचकुलाश्चर्य-गर्भापहारकारणैः । गर्भाधानमकल्याणं, गर्भकल्याणकं कथम् ? ॥१॥ आश्चर्य- कल्पार्थ- मपि कल्याणं, श्रीमल्लिवीरयोर्मतम् ।नीचनिन्द्याशुभैर्वाक्य-रकल्याणं कथं भवेत् ? ॥२॥ कल्याणं च्यवनं प्रोक्तं, बोधिन्याःगर्भकल्याणकं तथा । अवतरणकल्याण-मकल्याणं कथं भवेत् ॥ ३ ॥ यत उक्तं-"गम्भे जम्मे य तहा, णिक्खमणे व्या०१ चेव णाणणिवाणे । भुवणगुरूण जिणाणं, कल्लाणा होति णायचा ॥३१॥" इति पञ्चाशके । तथा “अवयरणजम्मणिक्खमण
Xणाणणिवाणपंचकल्लाणे । तित्थयराणं नियमा, करंति सेसेसु खित्तेसु ॥१॥” इति जिनभद्रीयबृहत्सङ्ग्रहण्यां । नीचकुलेऽवती- ॥१३॥
र्णश्चे-द्वीरः कल्याणको मतः। उच्चकुलागतो वीरः, किमकल्याणको मतः?॥४॥ चेत्क्षत्रियकुलायातो, गर्भः कल्याणको मतः। विप्रकुलेऽवतीर्णो हि, किमकल्याणको मतः१॥५॥ देवानन्दोदरे गर्भो, यथा कल्याणरूपकः। तथैव त्रिशलाकुक्षौ, गर्भः कल्याणको मतः ॥ ६॥ यावद्गर्भतयोत्पत्तिं, च्युत्वा गत्यन्तराद्यथा। बुधैश्यवनकल्याणं, मतं गणधरादिभिः॥७॥ तथैव-हरणं वाऽपहारस्तत्-त्रिशलोदरधारणम् । गर्भधारणकल्याणं, तत्त्वकल्याणकं कथम् ? ॥ ८॥ तावदपहृतो गर्भ-स्त्रिशलाकुक्षिसंहृतः। अतो गर्भापहारो हि, श्रेयःकल्याणसूचकः ॥९॥"गर्भस्योदरसत्त्वस्य”, इति स्थानाङ्गवृत्तितः । हरणमुदरान्तर-सङ्क्रामणं तु श्रेयसे ॥१०॥ वक्ष्यति चात्रैवाग्रे शक्रविचारणायां-"तं सेयं खलु मम वि समणं भगवं महावीर" इत्यादि यावत् "तिसलाए खत्तियाणीए वासिट्ठसगुत्ताए कुच्छिसि गब्भत्ताए साहरावित्तए" इति । त्रिशलोदरगो गर्भ, पञ्चकल्याणमध्यगः । प्रोक्तः x"गर्भस्य-(सीकुक्षिसमुद्भूतसत्त्वस्य ) श्रीवर्द्धमानरूपस्य हरण-त्रिशला (अन्यत्री)कुक्षौ सक्रामणं गर्भहरणं" इति (प्रव० सारो• वृ.) कल्पदीपिकायां च ।
॥१३॥
For Private And Personal Use Only