________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ते णं काले णं ते णं समए णं समणे भगवं महावीरे पंचहत्थुत्तरे होत्था । २-यत्तदोर्नित्याभिसम्बन्धात् यदाऽसौ भगवान् देवलोकाच्युत्वा देवानन्दोदरेऽवतीर्णः, "ते" इति प्राकृतत्वात् तस्मिन् , “ण"कारः सर्वत्र वाक्यालङ्कारे, काले-चतुर्थारकान्ते, तस्मिन्समये-निर्विभाज्यकालविशेषे, यद्वा हेतौ तृतीया, ततो यौ कालसमयौ श्रीऋषभादिजिनीरस्य च्यवनादीनां षण्णां कल्याणकानां - हेतुत्वेनोक्तौ,* तेन हेतुभूतेन कालेन समयेन च 'श्रमणः' तपस्वी 'भगवान्' समग्रैश्वर्यादियुक्तो 'महावीरः' कर्मशत्रुञ्जयादन्वर्थाभिधोऽन्त्यो जिनः "पंचहत्थुत्तरे"त्ति हस्तादुत्तरदिशि वर्तमानत्वात् , हस्त उत्तरो-अग्रवी यासां वा ता हस्तोत्तरा-उत्तराफाल्गुन्यः, पञ्चसु च्यवनादि(गर्भाधानादि)ज्ञानावाप्तिपर्यवसानेषु कल्याणक(वस्तुषु)स्थानेषु|* यस्य स पञ्चहस्तोत्तर इति भगवद्विशेषणं, निर्वाणस्य स्वाती जातत्वात् , “होत्थ"त्ति अभवत् ।
अथाकल्याणकवादी आह-"करोषि श्रीमहावीरे, कथं कल्याणकानि षट् । यत्तेष्वेकमकल्याणं, विप्रनीचकुलत्वतः॥१॥" इति गुरुतत्त्वप्रदीपे। "अकल्याणकभूतस्य गर्भापहारस्य" इति कल्पकिरणावल्यां। "नीचैर्गोत्रविपाकरूपस्य अतिनिन्द्यस्य आश्चर्यरूपस्य गोपहारस्यापि कल्याणकत्वकथनमनुचितं" इति कल्पसुबोधिकायां । "गर्भापहारोऽशुभः" इति च क० सु० टिप्पण्यां ।
xनच वाच्यं च्यवनादीनां षण्णां कल्याणकत्वेन व्याख्यानमनागमिकं, "जो भगवताउसभसामिणा सेसतित्थगरेहि अवद्धमाणसामिणोचवणाईणं छण्हं वत्थूणं कालो दिट्ठोणातो वागरिओ अ" इति पर्युषणाकल्प-दशाश्रुतस्कन्धचूयोर्वाक्यस्य तथा “हस्त उत्तरोयासां उत्तरफाल्गुनीनांता हस्तोत्तरास्ताश्च पञ्चसु स्थानेषु-गर्भाधान-संहरण-जन्म-दीक्षा-ज्ञानोत्पत्तिलक्षणेषुसंवृत्ताः, अतः पञ्चहस्तोत्तरोभगवानभू" दित्याचारावृत्तिवाक्यस्य Alच बाधकत्वादिति, यतो न व्यभिचरति कल्याणकत्वं वस्तुस्थाने, यथा शिंशपावं वनस्पतिवृक्षौ, कल्याणकाकल्याणकयोरुभयत्रापि वस्तुस्थानयोर्घटमानत्वात् ।
पर्यु. क.३
For Private And Personal Use Only