________________
Shri Mahavir Jain Aradhana Kendra
पर्युषणा० कल्पार्थ
बोधिन्याः
व्या० १
॥ १२ ॥
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ष्ठितं यन्मातुलिङ्गं - बीजपूरफलं, तस्य वनमिति दृष्टान्ताः । परलोके चण्डपिङ्गलेचौरो हुण्डिकयक्षचं दृष्टान्तौ । अथ जघन्यमध्यमवाचनात्मकं षट्कल्याणकबन्धबन्धुरं श्रीवीरचरित्रं वर्णयन्ति श्रीभद्रबाहुखामिपादा:
१–एकस्मिन्नगरे नदीतीरे देहचिन्ताऽर्थमागतेन केनचिदद्भुतं बीजपूरमुपलभ्य राज्ञे उपायनीकृतं राज्ञा च तद् व्यतिकरं ज्ञात्वा तत्तुल्यानामन्यफलानां प्राप्तये प्रेषिताः सपाथेयाः पुरुषाः, दृष्टं तद्वनं तैः ज्ञातं च-फलानि यो गृह्णाति स म्रियते इति, राज्ञे कथितं तेनाप्यवश्यमानेतव्यानीति परिपाटितस्तदानयनायादिष्टाः सर्वे नगरजनाः, तत एको वनं प्रविश्य फलं बहिः प्रक्षिपति, म्रियते तत्रैव सः, अन्ये बहिःस्था आनयन्ति । अन्यदैकस्य श्राद्धस्य परिपाटी समागता, स च वनं प्रविशनेव नैवैधिकीपूर्वमुच्चैर्नमस्कारमुच्चच्चार, तं श्रुत्वा प्रतिबुद्धस्तदधिष्ठाता व्यन्तरः । प्रतिप्रातस्तदुच्छीर्षके फलप्रापणवरं दत्वा तं विससर्ज ततो राजमान्यो जातः सः ।
२- वसन्तपुरे चण्डपिङ्गलचौरः गणिकाश्राद्धीगृहे निवसति, कदाचिनृपस्य हारमपहृत्य गणिकागृहे गोपितवान् । अन्यदोद्यानिकायां व्रजन्त्यो विभूषितास्सर्वा गणिकाः, ततोऽहमेव सर्वास्वतिशायिनी स्वामिति विचिन्त्य सा तमेव हारं परिदधे । दासीदेव्यादिपरम्परया ज्ञाते राज्ञा चण्डपिङ्गलो गृहीतः शूलायां चारोपितः । मम दोषेण मारितोऽयमिति चिन्तयन्ती सा गणिका तस्मै नमस्कारं श्रावयति भणति च- 'अनन्तरे भवेऽहमस्य राज्ञः पुत्रो भवेय' मिति निदानं कुरु, तथा कृत्वा सृतः सोऽग्रमहिष्युदरे पुत्रत्वेनोत्पन्नः । जाते च सुते सा गणिका क्रीडाधात्री नियुक्ता, चण्डपिङ्गलमरणस्य गर्भाधानस्य च कालसमव विभाव्य बालं रमयन्ती भणति 'मा रोदीचण्डपिङ्गल !' इति, ततो जातजातिस्मृतिः स प्रतिबुद्धः क्रमेण राज्यसुखमनुभूयान्ते द्वावपि प्रब्रजितौ, एवं सुकुलप्रत्यागमनं तन्मूलं च सिद्धिगमनं ।
३–मथुरायां हुण्डिकचौरो नगरं मुष्णाति । कदाचिद्गृहीतः शूलायां चारोपितः । तृषितस्सन् नातिदूरेण ब्रजन्तं जिनदत्तश्राद्धं भणति - 'भोः श्राद्धवर ! तृषितोsहं, पानीयं देहि' । तेनोक्तं- 'इमं नमस्कारं पठ यावत्तत्वार्थ पानीयमानयामि, यदि विस्मरिष्यसि तदाऽऽनीतमपि न दास्यामि' । प्रतिपचं तेन, गतः श्राद्धः, पानीयं गृहीत्वा यावदागच्छति तावन्नमस्कारं घोषयन्नेव मृतो यक्षत्वेनोत्पन्नः । द्वतो राजपुरुषैश्चौरभक्तदायकत्वाद्गृहीतः श्राद्धो नृपादेशेन यावत् शूलास्थानं नीयते तावदवधिना ज्ञातव्यतिकरो यक्षः पर्वतमुत्पाठ्य नगरोपरि स्थित्वा भणति-रे ! न जानीथ श्राद्धं भट्टारकं ?, क्षामयत, अन्यथा चूरयिष्यामि । भीतस्सर्वैः क्षमितः श्राद्धः यक्षायतनं च कारितं पूर्वस्यां दिशि । एवं फलमाप्यते नमस्कारेणेति ।
For Private And Personal Use Only
सूत्रं १ नमस्कार
माहात्म्ये ऐहिकफले
श्राद्धपुत्रपुत्र्युदाहरणे
॥ १२ ॥