________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
णमो अरिहंताण, णमो सिद्धाणं, णमो आयरियाणं, णमो उवज्झायाणं, णमो लोए सवसाहूणं, एसो पंचणमोकारो, सवपावप्पणा सणो, मंगलाणं च सव्वेसि, पढम हवइ मंगलं ॥१॥
१-चतुःषष्टीन्द्रकृतामशोकाद्यष्टमहापातिहार्यरूपां पूजामहन्तीत्यर्हन्तस्तेभ्यो नमः । सितं-बद्धं यदष्टविधं कर्म, तद् ध्मातं-दग्धं यैस्ते सिद्धास्तेभ्यो नमः । आचरन्ति ज्ञानादिपञ्चविधमाचारं ये ते आचार्याः-सङ्घनायकास्तेभ्यो नमः। उप-समीपमागतान् शिष्यादिकान् अध्यापयन्ति द्वादशाङ्गानि सूत्रतो येते उपाध्यायास्तेभ्यो नमः। साधयन्ति ज्ञानाद्यैर्मोक्षमार्ग ये ते साधवः, सर्वे-अर्धतृतीयद्वीपसमुद्रान्तर्वतिनो जिनकल्पिक-लान्तकल्पिकस्थविरकल्पिकादयो ये साधवस्तेभ्यो नमः। एष-अर्हदादीनां पञ्चानां कृतो नमस्कारस्सर्वपापप्रणाशनः, च-पुनसर्वेषां मङ्गलानां मध्ये प्रथम-प्रधानं मङ्गलं भवति । यतोऽस्य प्रभावेणानेकैरैहिकं पारत्रिकंच फलं प्राप्तं, यथा"इहलोअम्मि तिदंडी, सादिवं माउलिंगवणमेव । परलोए चंडपिंगल-इंडियजक्खो य दिटुंता॥१॥" | इहलोकफले त्रिदण्डिपाशपतितस्य श्राद्धपुत्रस्य, सादिव्यं-कृतदेवसान्निध्यायाः श्राविकार्याश्च, यद्वा देवाधि
१-एकः कश्चिच्छ्राद्धपुत्रो धनाशया ब्रिदण्डिपाशे पतितः, श्मशाने करतखड्गो मृतकाने स्थितः, योगिकृतमश्रजापाब्यन्तराधिष्ठितं मृतकमुत्तिष्ठन्तं दृष्ट्वा भाभीतस्सन् पित्रा शिक्षितं पञ्चनमस्कारं परावर्त्तयति, तत्प्रभावात्स्वात्मा रक्षितः सुवर्णपुरुषश्च साधितस्तेन । | २-एका श्रावसुता छलेन विधर्मिणा परिणीता, धर्मवैमनस्यतो सातकोपेन पत्या भुजङ्गानि क्षिप्तं घटमन्धकारे संस्थाप्य निशायां तन्मध्याकुसुममाला ऽऽनयनायादिष्टा सा नमस्कारं स्मरन्ती हस्तम क्षिपद्धटे, देवसान्निध्यादागता कुसुममालैव तदस्ते, दत्ता च पत्ये, विस्मितस्स स्वापराध क्षमयति ।
For Private And Personal Use Only