________________
Shri Mahavir Jain Aradhana Kendra
www.kobairth.org
Acharya Shri Kailassagarsuri Gyanmandir
ORK
पर्युषणा० तां शिलां पाणिना धृतवान् । तत्तपःशक्त्या हतप्रतापो व्यन्तरः शिलां संहृत्य नागकेतुं नतवान् नृपं च पीठिका कल्पार्थ- तद्वचसा स्वस्थमकरोत् । ततः प्रभृति राजमान्यः सन्नेकदा जिनेन्द्रपूजां कुर्वन् पुष्पमध्यस्थेनाहिना दष्टोऽप्य-N कल्पेऽधिबोधिन्याः व्यग्रचित्तः शुभभावनारूढः केवलमवाप्तः । ततः शासनदेवतार्पितमुनिवेषश्चिरं विहृत्यानेकान् भव्या कारत्रयं, व्या० १ प्रतिबोध्य शिवं प्राप्तः। एवमन्यैरपि सत्यां शक्ताववश्यं अष्टमतपसि यतनीयं, यतो रत्नत्रयवदन्यं शल्य- | सूत्रं १ ॥११॥ त्रयोन्मूलनं जन्मत्रयपावनं लोकत्रयाग्र्यपदप्रापकमिदमष्टमं तप इति नागकेतुकथा ।
परमेष्ठिअथास्मिन्कल्पसूत्रे त्रीण्यधिकाराणि वाच्यानि, यथा
नमस्कारः |"पुरिमचरिमाण कप्पो, मंगलं वद्धमाणतित्थम्मि। इह परिकहिया जिणगण-हराइथेरावलिचरितं ॥१॥"
व्याख्या-प्रथमचरमयोः-ऋषभवीरजिनयोस्तीर्थे मुनीनामयं 'कल्पा' आचारो, यदृष्टिर्भवतु मा वा परमवश्यं * पर्युषणा कार्या, उपलक्षणात्कल्पसूत्रं वाचनीयं । 'मङ्गल मिति एकोऽयमाचारोऽपरश्च मङ्गलं वर्द्धमानतीर्थे,
कस्मादेवं ? इत्याह-यस्मादिह परिकथितानि “जिण"त्ति जिनानां चरितानि १, “गणहराइथेरावलि"त्ति गणधरादिस्थविरावली २, “चरित्त"ति सामाचारी ३ इत्येवंरूपाणि त्रीण्यधिकाराणि। तत्राधिकारे जिनचरितात्मके वर्त्तमानतीर्थाधिपतित्वेनासन्नोपकारित्वेन चादौ श्रीभद्रबाहुखामिपूज्यास्तीर्थकरभवव्यतिकरावाप्तषण्महाकल्याणकनिबन्धबन्धुरं श्रीवीरचरित्रं सूत्रयन्नादिमङ्गलार्थ परमेष्ठिनमस्कारात्मकं पञ्चमङ्गलमहाश्रुतस्कन्धमादिशन्ति
For Private And Personal Use Only