________________
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www.kobafirth.org
अथ नवमं व्याख्यानम् ।
तेणं काले णं ते णं समए णं समणे भगवं महावीरे वासाणं सवीसइराए मासे विइक्वंते वासावासं पज्जोसवेइ ॥१॥ से केणऽटेणं भंते ! एवं बुच्चा 'समणे भगवं महावीरे वासाणं सवीसइराए मासे विकते वासावासं पजोसवेइ ?। जोणं पाएणं अगारीणं अगाराई कडियाई उकंपियाई छन्नाई लित्ताई गुत्ताई घटाई मट्ठाई संपधूमियाई खाओदगाई खायनिद्धमणाई अप्पणो अट्ठाए कडाई परिभुत्ताई | अथ सामाचारीलक्षणं तृतीयमधिकारं नवमं वा व्याख्यानं विवरीतुं प्रथमं पर्युषणा कदा विधेया ? इत्याह| १-तस्मिन् काले तस्मिन् समये श्रमणो भगवान महावीर आषाढचातुर्मासिकदिनादारभ्य 'वर्षायाः वर्षाकालस्य 'सविंशतिरात्रे' विंशतिदिवसान्विते मासे, पञ्चाशत्सु दिनेष्वित्यर्थः, व्यतिक्रान्ते सति वर्षावासं| पर्युषति-वर्षाकालस्य पर्युषणामकार्षीदित्यर्थः।।
२-शिष्यःप्रश्नयति-अथ केन 'अर्थेन'कारणेन 'भदन्त !' पूज्य! एवमुच्यते? यच्छ्रमणो भगवान् महावीरो 'वर्षायाः' वर्षाकालस्य सविंशतिरात्रे मासे-पञ्चाशदिवसे व्यतिक्रान्ते वर्षावासं पर्युषति ?। गुरुः प्रत्युत्तरयतियत इयत्कालं यावत् प्रायेण 'अगारिणां' गृहस्थानां 'अगाराणि' गृहाणि 'कटितानि' कटयुक्तानि-भित्त्यादिरक्षणाय तृणासन("चटाइ" इति लोके)दानयुक्तानीत्यर्थः, "उकंपियाई"ति धवलितानि 'छन्नानि तृणादिभिराच्छादितानि, लिप्तानि गोमयादिभिः, गुप्तानि वृत्तिकरणादिभिः, घृष्टानि विषमभूभञ्जनाय, मृष्टानि-पाषाणखण्डेन
For Private And Personal Use Only