SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir हिकामारिघोषणाकारकाः समग्रजैनतीर्थसंरक्षणाज्ञापत्रसम्प्रापका: श्रीजिनचन्द्रसूरयः। इत्यादयः खगच्छे, परगच्छेऽपि च कुमारपालभूपालं प्रतिबोध्याष्टादशदेशेष्वमारिप्रवर्त्तापकाः न्यायव्याकरणकाव्यकोशादिविविधविषयकसा त्रिकोटिप्रमितग्रन्थनिर्मापकाः कलिकालसर्वज्ञेति बिरुदधारकाः श्रीमद्धेमचन्द्रसूरयः । कुमुदचन्द्रदिगम्बरविजेतारः स्याद्वादरत्नाकराद्यतुच्छकर्कशतर्कग्रन्थनिर्मातारो वादिदेवसूरयः । चैत्यवन्दनादिभाष्यत्रयश्राद्धदिनकृत्यवृत्तिधर्मरत्नप्रकरणवृत्त्याद्यनल्पग्रन्धसोधसूत्रणसूत्रधाराश्चैत्रावालकगच्छनभोऽङ्गणनभोमणयः श्रीमद्देवेन्द्रसूरयः । इत्यादयोऽनेके स्थविराः खपरगच्छेषु प्रवचनप्रभावकारसञ्जातास्तेभ्यो नमो नमः॥ इति श्रीपर्युषणाकल्पावचूर्यन्तर्वाच्यादिविविधव्याख्यामुपजीव्य श्रीखरतरगच्छनभोनभोमणि-परमशासनप्रभावक-श्रीमन्मोहनमुनीश्वरविनेयविनेयानुयोगाचार्य-श्रीमत्केशरमुनिजी-णिवरसंगृहीतायां कल्पार्थबोधिनीनामपर्युषणाकल्प व्याख्यायामष्टमं व्याख्यानं समाप्त, तत्समाप्तौ च समाप्तोऽयं स्थविरावलीनाम द्वितीयोऽधिकारः । अं० १३८-२-१ मूलं, ४२४-१-३ वृत्तिः, ८१-१-२ टि० नं. १,०-३-६ टि० नं. २, सर्वाग्रेण ६४५-०-४, व्याख्यानाष्टकस्य ६१८४-०-५ x नन्वेते देवेन्द्रसूरयस्तपागच्छे साता इति तद्च्छीया मन्यन्ते, ततः कथमत्र तेषां चैत्रावालकगच्छे सजातत्वमुल्लिखितमिति चेदुच्यते-न कुत्रापि | तस्कृतीषु तपागच्छेति नाममात्रमप्युपलभ्यते, पश्यतां निम्नोद्धृतास्तस्कृतिप्रशस्तिश्लोकाः "तत्र क्रमेण 'चित्रा-बालक'गच्छो बभूव भुवि विदितः। श्रीभुवनचन्द्रसूरि'-स्तत्राभूद्भव्यपद्मरविः॥६॥ तच्छिष्यरतमभव[] भुवनप्रसि[ख]द्धा-चारित्रपात्रमखिलश्रुतपारमाप्तिः]प्ताः । गाम्भीर्यमुख्यगुणरत्नमहासमु[द्रदाम, 'श्रीदेवभद्र'गणिमिश्रसुनामधेयः]याः ॥७॥ तत्पादाम्बुजरोलम्बा, निरालम्बा वपुष्यपि । अभूवन् भूरिभावाड्याः, श्रीजगञ्चन्द्रसूरयः॥८॥ देवेन्द्रसूरिसंश-स्तेषामाद्यो बभूव १ न ह्यत्र बहुवचनस्यावकाशः, "तच्छिष्यरत्न"मित्यनेन साकमसङ्गतत्वात् । For Private And Personal Use Only
SR No.020546
Book TitleParyushana Kalpsutram
Original Sutra AuthorN/A
AuthorKesharmuni, Buddhisagar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1942
Total Pages435
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy