________________
Shri Mahavir Jain Aradhana Kendra
www.kobairth.org
Acharya Shri Kailassagarsus Gyanmandir
OXOXOXOXOXOX
PDALooyZOOXo-o-o-o
थेरं च नंदियं पि य, कासवगुत्तं पणिवयामि ॥१०॥ तत्तो य थिरचरित्तं, उत्तमसंमत्तसत्तसंजुत्तं । देसिगणिखमासमणं, माढरगुत्तं नम-| सामि ॥११॥ तत्तो अणुओगधरं, धीरं मइसागरं महासत्तं । थिरगुत्तखमासमणं, वच्छसगुत्तं पणिवयामि ॥१२॥ तत्तो य नाणदसणचरित्ततवसुट्टियं गुणमहंतं । थेरं कुमारधम्म, वंदामि गणिगुणोववेयं ॥ १३ ॥ सुत्तत्थरयणभरिए, खमदममवगुणेहिं संपन्ने । देविडिखमासमणे, कासवगुत्ते पणिवयामि ॥१४॥ नन्दितमपि काश्यपगोत्रं प्रणिपतामि ॥१०॥ ततश्च स्थिरचारित्रवन्तं उत्तमसम्यक्त्वसत्त्वाभ्यां संयुक्तं देशिगणिक्षमाश्रमणं माढरगोत्रं नमस्करोमि ॥११॥ ततोऽनुयोगधरं धैर्यसमन्वितं मत्याः सागरं महासत्त्ववन्तं वत्सगोत्रं स्थिरगुप्तक्षमाश्रमणं प्रणिपतामि ॥१२॥ ततश्च ज्ञानदर्शनचारित्रतपस्सु सुस्थितं धैर्यादिगुणैर्महान्तं गणेर्ये गुणाः प्रतिरूपत्वादयस्तैरुपपेतं-समन्वितं स्थविरं कुमारधर्म वन्दे ॥ १३ ॥ सूत्रार्थरूपे ये रत्ने, ताभ्यां 'भृतान्' परिपूर्णान् , पुनः 'क्षमा' क्षान्तिः 'दमः' इन्द्रियादिजयः 'मार्दवं' अभिमानराहित्य, इत्यादिकैर्गुणैः |'सम्पन्नान् युक्तान् देवर्द्धिगणिक्षमाश्रमणान् काश्यपगोत्रान् प्रणिपतामि ॥१४॥
एतव्यतिरिक्ता अन्येऽप्यनेके स्थविरा आचार्याः सञ्जाता यैर्नानाप्रकारैः शासनमुयोतितं, यथा-आर्यरक्षितसूरयः, ये सम्मिलितं द्रव्याद्यनुयोगचतुष्कं पृथक पृथक् संस्थापितवन्तोऽखिलमपि च स्वकुटुम्ब दीक्षितवन्तः । मल्लवादिसूरयः यैर्भृगुकच्छे बुद्धानन्दं बौद्धवादिनं निर्जित्य विहिता शासनप्रभावना । सिद्धसेनदिवाकराः, यैरवन्त्यां महाकालप्रतिकृतेरधःस्थमवन्तिपार्श्वबिम्बं प्रकटीकृत्य प्रतिबोध्य च विक्रमादित्यं नरेशं विहिता जैनशासनस्य
FoXXoxoxoxoxoxex XXXX
For Private And Personal Use Only