________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काकंदगा वग्धावच्चसगुत्ता (९) । थेराणं सुट्टियसुपडिबुद्धाणं कोडियकाकंदगाणं वग्धावश्चसगुत्ताणं अंतेवासी थेरे अज्जइंददिने कोसियगुत्ते (१०) । थेरस्स णं अज्जइंददिन्नस्स कोसिअगुत्तस्स अंतेवासी थेरे अज्जदिने गोयमसगुत्ते (११) । थेरस्स णं अजदिन्नस्स गोयमसगुत्तस्स अंतेवासी थेरे अज्जसीहगिरी जाइस्सरे कोसियगुत्ते (१२) । थेरस्स णं अजसीहगिरिस्स जाइस्सरस्स कोसियगुत्तस्स अंतेवासी थेरे कन्दिको व्याघ्रापत्यगोत्री, तत्र 'सुस्थिती' सुविहितक्रियानिष्ठौ 'सुप्रतिबुद्ध' सुज्ञाततत्त्वी कोटिककाकन्दिका| विति नाम, अन्ये त्वाहु:-सुस्थित सुप्रतिबुद्धाविति नामनी, कोटिवारं सूरिमन्त्रजापात्कोटिको काकन्यां नगर्यां जातत्वाच काकन्दिकाविति बिरुदप्राये विशेषणे (९) ।
स्थविरयोः सुस्थित सुप्रतिबुद्धयोः कौटिक काकन्दिकयोर्व्याघ्रापत्यगोत्रयोरन्तेवासी स्थविर आर्य इन्द्रदिन्नः कौशिकगोत्रोऽभूत् (१०) । स्थविरस्य आर्यइन्द्रदिन्नस्य कौशिक गोत्रस्य अन्तेवासी स्थविर आर्यदिनो गौतमगोत्रोऽभूत् (११) । स्थविरस्यार्यदिन्नस्य गौतमगोत्रस्यान्तेवासी स्थविर आर्यसिंहगिरिर्जातिस्मरण (ज्ञान) वान् कौशिक गोत्रोऽभूत् (१२) । स्थविरस्य आर्यसिंह गिरेर्जातिस्मरणवतः कौशिक गोत्रस्यान्तेवासी स्थविर आर्यवज्रो गौतमगोत्रो जातः, तत्सम्बन्धो यथा
तुम्बवनग्रामे सुनन्दाभिधां भार्यां साधानां परित्यज्य धनगिरिः प्रव्रजितोऽभूत् । सुनन्दासुतस्तु खजन्मकाले एव पितुर्दीक्षां श्रुत्वा सञ्जातजातिस्मृतिर्मातुरुद्वेगाय नित्यं रुदन्नेवास्ते । ततो मात्रा षण्मासवया एव विहारक्रमेणागतस्य धनगिरेरर्पितः, तेन च जनसाक्षिपूर्वकं गृहीत्वाऽऽगत्य गुरोः करे समर्पितो महाभारत्वाद्दत्त
For Private And Personal Use Only