________________
Shri Mahavir Jain Aradhana Kendra
XOXO
www.kobafirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मित्रगृहे दृष्टिपातादीङ्गितान्निधानदर्शनेन यक्षार्याप्रभृतीनां वन्दनार्थमागतानां स्वभगिनीनां सिंहरूपदर्शनेन च दूनाः श्रीभद्रबाहु खामिनो 'वाचनायामयोग्यस्त्वं' इति स्थूलभद्रमुक्तवन्तः, ततः सङ्घाग्रहात् 'अथान्यस्मै वाचना न देया' इत्युक्त्वा केवलं सूत्रतो वाचनां ददुः । अतोऽयं चरमः श्रुतकेवली, यदुक्तम्
"केवली चरमो जम्बू-स्वाम्यथ प्रभवः प्रभुः । शय्यम्भवो यशोभद्रः, सम्भूतविजयस्तथा ॥ १ ॥” "भद्रबाहुः स्थूलभद्रः, श्रुतकेवलिनो हि षट् । महागिरिसुहस्त्याद्या, वज्रान्ता दशपूर्विणः ॥ २॥” (७)। स्थविरस्य आर्यस्थूलभद्रस्य गौतमगोत्रस्यान्तेवासिनौ द्वौ स्थविरौ - स्थविर आर्यमहागिरिः एलापत्यगोत्रः, स्थविर आर्यसुहस्तिर्वाशिष्ठगोत्रः । तत्र आर्यमहागिरिणा व्युच्छिन्नेऽपि जिनकल्पे ततुलनारूपं परिकर्म कृतं, तथा श्रेष्ठिगृहे स्थितः सुहस्तिसूरिर्यस्य महागिरेः संस्तवनमकार्षीत्, यदुक्तम्
+ “जिणकष्पपरीकम्मं, जोडकासी जस्स संथवमकासी । सिट्ठिघरम्मि सुहत्थी, तं अज्जमहागिरिं वंदे ॥ १ ॥ " स च गजेन्द्रपदे तीर्थेऽनशनेन खर्गे गतः ।
आर्यसुहस्तिभिरन्यदा दुर्भिक्षे साधुभ्यो भिक्षां याचमानो द्रमको दीक्षितः, सच"सखादं खादुमाहारं, तथा ह्याकण्ठमात्तवान् । पन्थाः श्वासानिलस्यापि यथा दुस्सञ्चरोऽभवत् ॥ १ ॥” अतस्तद्दिनस्यैव निशायां रुद्धश्वासो मृतः श्रेणिकसुतकोणिकसुतोदायि पहोदितनवनन्दपद्यप्रभाकरचन्द्रगुप्त+ जिनकल्पपरिकर्म, योऽकार्षीयस्य संस्तवमकार्षीत् । श्रेष्ठिगृहे सुहस्ती, तमार्यमहागिरिं वन्दे ॥ १ ॥
For Private And Personal Use Only
CXXCXXXCXCXXCXCX