________________
Shri Mahavir Jain Aradhana Kendra
www.kobairth.org
Acharya Shri Kailassagarsuri Gyanmandir
पर्युषणा कल्पार्थबोधिन्याः व्या०८ ॥१५९॥
सूत्रं ६ स्थविरावल्यां स्थूलभद्रचरितम्
समं मया। तत्रैव चित्रशालाया-मस्थात्सोऽखण्डितव्रतः॥५॥ दुग्धं नकुलसञ्चारा-दिव स्त्रीणां प्रचारतः। योगिनां दृष्यते चेतः, स्थूलभद्रमुनि विना ॥६॥ दिनमेकमपि स्थातुं, कोऽलं स्त्रीसन्निधौ तथा। चतुर्मासी यथाऽतिष्ठत् , स्थूलभद्रोऽक्षतव्रतः॥७॥” इत्याद्युपदेशेन प्रतियोधितः
"कल्याणमस्तु ते भद्रे !, पालय स्वमभिग्रहम् । उक्त्वैवं सद्गुरोः पार्थे, गत्वा दीक्षां स आददे ॥१॥" कवयोऽप्यूचुः-"गिरौ गुहायां विजने वनान्तरे, वासं श्रयन्तो वशिनः सहस्रशः।"
"हर्येऽतिरम्ये युवतीजनान्तिके, वशी स एकः शकटालनन्दनः॥१॥” “योऽग्नौ प्रविष्टोऽपि हि नैव दग्ध-श्छिन्नो न खड्गाग्रकृतप्रचारः।"
"कृष्णाहिरन्धेऽप्युषितो न दष्टो, नाक्तोऽञ्जनागारनिवास्यहो !! यः॥२॥" "वेश्या रागवती सदा तदनुगा षड्भी रसैर्भोजनं, शुभ्रं धाम मनोहरं वपुरहो !! नव्यो वयस्सङ्गमः।" । "कालोऽयं जलदाविलस्तदपि यः कामं जिगायादरात्, तं वन्दे युवतीप्रबोधकुशलं श्रीस्थूलभद्रं मुनिम् ॥३॥"
"श्रीनेमितोऽपि शकटालसुतं विचार्य, मन्यामहे वयममुं भटमेकमेव ।"
“देवोऽद्रिदुर्गमधिरुह्य जिगाय मोहं, यन्मोहनालयमयं तु वशी प्रविश्य ॥४॥" अथान्यदा द्वादशवर्षीयदुर्भिक्षान्ते श्रीभद्रबाहुखामिभिः साधुपञ्चशत्याः प्रत्यहं वाचनासप्तकेन दृष्टिवादे पाठ्यमाने सप्तसप्तवाचनाभिरुद्विग्नेष्वन्येषु साधुषु श्रीस्थूलभद्रो वस्तुद्वयोनानि दशपूर्वाण्यधीतवान् । अथैकदा
EXOXOXOXOXOXOXOXO-KOKOXOKE
| ॥१५९॥
For Private And Personal Use Only