________________
Shri Mahavir Jain Aradhana Kendra
www.kobasrth.org
Acharya Shri Kailassagarsuri Gyanmandir
दुष्करदुष्करकारक !' इत्युक्तं । तद्वचसा च प्रागायाताः सिंहगुहा-सर्प बिल-कूपकाष्टवासिनत्रयो मुनयः, येषामागमने गुरुभिरीषदुत्थाय 'खागतं भो दुष्करकारकाः!' इत्युक्तं, ते दूनाः, तेषु सिंहगुहास्थायी मुनिर्गुरु-| भिर्वार्यमाणोऽपि द्वितीयचतुर्मास्यां कोशागृहे गतः, दृष्ट्वैव च तां दिव्यरूपां चलचित्तोऽजनि । ततस्तया नेपालदेशादानायितं रत्नकम्बलं खाले निक्षिप्य प्रतियोधितो गुर्वन्तिके समागतः खदुश्चीर्णमालोच्य चोक्तवान्___"स्थूलभद्रः स्थूलभद्रः, स एकोऽखिलसाधुषु । युक्तं दुष्करदुष्कर-कारको गुरुणा जगे ॥१॥" यतः-x“पुप्फफलाणं च रसं, सुराण मंसाण महिलियाणं च । जाणंता जे विरया, ते दुक्करकारए वंदे ॥१॥" ततो-"राज्ञा प्रदत्ता कोशाऽपि, तुष्टेन रथिनेऽन्यदा । राजायत्तेति शिश्राय, विना रागेण सा तु तम् ॥१॥" "स्थूलभद्रं विना नान्यः, पुमान्कोऽपीत्यहर्निशम् । सा तस्य रथिनोऽभ्यर्णे, वर्णयामास वर्णिनी ॥२॥” ततः पुडार्पितबाणैर्दूरस्थानलुम्ब्यानयनगर्वितस्य रथिनोऽग्रे सर्षपराशिकृतस्तया, ततः
"सूची क्षिप्त्वा तत्र राशी, पुष्पपत्रैः पिधाय ताम् । सा ननर्त्त च नो सूच्या, विद्धा राशिश्च न क्षतः॥१॥ ततः स उचे तुष्टोऽस्मि, दुष्करणामुना तव । याचख यन्ममायत्तं, ददामि तदहं ध्रुवम् ॥२॥ सोवाच किं मयाऽकारि?, दुष्करं येन रञ्जितः। इदमप्यधिकं नास्मात्, किमभ्यासेन दुष्करम् ?॥३॥ किश्चाम्रलुम्बीछेदोऽयं, नृत्तं चेदं न दुष्करम् । अशिक्षितं स्थूलभद्रो, यच्चक्रे तत्तु दुष्करम् ॥ ४॥ अभुक्त द्वादशाब्दानि, भोगान्यत्र
x पुष्पफलानां च रस, सुराणां मांसानां महिलिकानां च । जानन्तो ये विरता-स्तान् दुष्करकारकान्वन्दे ॥१॥
For Private And Personal Use Only