________________
Shri Mahavir Jain Aradhana Kendra
www.kobasrth.org
Acharya Shri Kailassagarsuri Gyanmandir
वासी दुवे थेरा-थेरे अजसंभूअविजए माढरसगुत्ते, थेरे अजभहवाहू पाईणसगुत्ते (६)। थेरस्स णं अजसंभूअविजयस्स माढरसगुत्तस्स
प्रतिष्ठानपुरवासिनी वराहमिहिर-भद्रबाहुनामानौ सहोदरौ द्विजौ श्रीयशोभद्रसूरिपार्श्वे धर्म श्रुत्वा प्रत्र|जिती, क्रमेण चतुर्दशपूर्वधरौ जाती, विनयादिगुणैर्योग्यत्वाद् भद्रबाहोराचार्यपदप्रदाने रुष्टो वराहमिहिरो द्विजवेषमाहत्य वाराहीसंहिताख्यं ज्योतिर्ग्रन्थं विधाय निमित्तैर्जीवति भणति च-क्काप्यरण्ये शिलायां सिंहलग्नं लिखितं मया, गृहागतेन शयनावसरे तदभञ्जनं स्मृतं, ततो लग्नभक्त्या तत्र गतेन लग्नोपरि स्थितं सिंह दृष्ट्वाऽपि तस्याधो हस्तं निक्षिप्य लग्ने भन्ने सन्तुष्टः सिंहलग्नाधिपः सूर्यः प्रत्यक्षीभूय मां खमण्डले नीत्वा सर्व x ग्रहचारमदर्शयदिति । अन्यदा वराहेण नृपाने कुण्डालकमालिख्य प्रोक्तं-इतः पञ्चमेहि पूर्वतो मेघः समेप्यति, तृतीयप्रहरान्तेऽस्य कुण्डालकस्य मध्यभागे द्विपश्चाशत्पलमितो मत्स्यः पतिष्यतीति । तदा तन्नगरागतैः
श्रीभद्रबाहुखामिभिरुक्तं-किश्चित्सत्यं किञ्चिच्चासत्यमत्र, यतो मेघः पूर्वतो न, किन्तु ईशानतः, समेष्यति, Xमत्स्यस्तृतीयप्रहरान्ते न, किन्तु षड्घटिकाऽवशिष्टे दिवसे, कुण्डालकस्य मध्ये न, किन्तु प्रान्ते, द्विपञ्चाशत्प-x
लमानो न, किन्तु मार्गेऽर्धपलशोषात्सार्धेकपञ्चाशत्पलमानो पतिष्यतीति, तच मिलितं । पुनरन्यदा राज्ञः पुत्रो जातः, वराहेण तस्य शतवर्षायुर्वर्त्तनेन जन्मपत्रिका लिखिता, तत 'एते श्रमणा न व्यवहारज्ञा, यतो राजसुतस्य विलोकनार्थमपि नागताः' इत्येवं जैननिन्दायां क्रियमाणायां गुरुभिरष्टमे दिने रात्री बिडालिकातो मृतिरुक्ता नृपनन्दनस्य, राज्ञा च पुरात्सर्वबिडालिकाकर्षणेऽप्यष्टमे दिने स्तन्यं पिवतो बालस्योपरि बिडालिका
XOXOXOXOXOXOXOX6Yox
For Private And Personal Use Only