________________
Shri Mahavir Jain Aradhana Kendra
पर्युषणा० कल्पार्थबोधिन्याः व्या० ८
।। १५६ ।।
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रं ५
समभवं महावीरे कासवगुत्ते णं । समणस्स णं भगवओ महावीरस्स कासवगुत्तस्स अजसुहम्मे थेरे अंतेवासी अग्गिवेसायणसगुत्ते १ । थेरस्स णं अजसुहम्मस्स अग्गिवेसायणसगुत्तस्स अज्जजंबुनामे थेरे अंतेवासी कासवगुत्ते णं २ । थेरस्स णं अज्जजंबुणामस्स * स्थविराव
अथ भगवतः पट्टपरम्परामाह -
५- श्रमणो भगवान् महावीरः काश्यपगोत्रः । श्रमणस्य भगवतो महावीरस्य काश्यपगोत्रस्य आर्यसुधर्मा स्थविरोऽन्तेवासी अग्निवैश्यायन गोत्रः । स च कुल्लागसन्निवेशवासिधम्मिलद्विज भार्या भद्दिलापुत्रश्चतुर्दशविद्यापारगः पञ्चाशद्वर्षान्ते प्रत्रजितस्त्रिंशद्वर्षाणि वीरसेवा, वीरनिर्वाणाद् द्वादशवर्षान्ते जन्मतो द्विनवतिवर्षान्ते च केवलमवाप्तवान्, ततोऽष्टौ वर्षाणि केवलित्वे विहृत्य परिपूर्णशतवर्षायुर्जम्बूखामिनं खपदे संस्थाप्य सिद्ध: (१) ।
स्थविरस्यार्यसुधर्मणोऽग्निवैश्यायनगोत्रस्य आर्यजम्बूनामा स्थविरोऽन्तेवासी काश्यपगोत्रस्तत्सम्बन्धश्चैवं| राजगृहे ऋषभदत्तव्यवहारीप्रियाधारिणीपुत्रः पञ्चमकल्पाच्युतो जम्बूकुमारः श्रीसुधर्मखाम्यन्तिके धर्मं श्रुत्वा | गृहीतशील सम्यक्त्वोऽपि पित्रोरत्याग्रहादष्टौ कन्याः परिणीतः परं न तासां स्नेहवाग्भिर्व्यामोहितः । | यत:- " सम्यक्त्वशीलतुम्बाभ्यां भवाब्धिस्तीर्यते सुखम् । ते दधानो मुनिर्जम्बू, स्त्रीनदीषु कथं ब्रुडेत् १ ॥ १ ॥" ततो निशायां ताः प्रतिबोधयंश्चौर्यार्थमायातं नवनवत्यधिकचतुश्शतचौरपरिवृतं प्रभवाख्यं चौरमप्यनेकैर्हेतुयुक्त्याद्यैः प्राबोधयत् । प्रातः पञ्चशतचौरप्रियाऽष्टकतज्जनकजननीखजनकजननीभिः सह खयं पञ्चशतसप्तविंशतितमो नवनवतिकनककोटीः परित्यज्य प्रब्रजितः, क्रमशः केवलीभूय वर्षाणां षोडशं गृहस्थत्वे, विंशति
For Private And Personal Use Only
ल्यां आर्यसुधर्मजम्बूस्वामिवृत्तौ
।। १५६ ॥