________________
Shri Mahavir Jain Aradhana Kendra
www.kobasrth.org
Acharya Shri Kailassagarsuri Gyanmandir
गिहे नगरे मासिएणं भत्तेणं अपाणएणं कालगया, जाव सव्वदुक्खप्पहीणा । थेरे इंदभूई, थेरे अजसुहम्मे य सिद्धिं गए महावीरे पच्छा | दुण्णि वि थेरा परि निघुया। जे इमे अजत्ताए समणा निग्गंथा विहरंति, एए णं सच्चे अजसुहम्मस्स अणगारस्स आवञ्चिजा, अवसेसा | X गणहरा निरवच्या वुच्छिन्ना ॥४॥
दिदृष्टिवादान्तश्रुतवन्तः, स्वयं रचितत्वात्, पुनः 'चतुर्दशपूर्विणः' चतुर्दशपूर्ववेत्तारः, चतुर्दशपूर्वाणामङ्गान्तजागतत्वेऽपि पूर्व प्रणयनादनेकविद्यामन्त्राद्यर्थमयत्वान्महाप्रमाणत्वाच प्राधान्यख्यापनार्थ पृथगुपादानं । सूत्र
मात्रेऽपि द्वादशाङ्गित्वं चतुर्दशपूर्वित्वं च स्यादतस्तदपोहार्थमाह-समस्तगणिपिटकधारकाः, 'समस्तं' सर्वाक्षरसन्नि| पातित्वात्सूत्रतोऽर्थतश्चापि, न तु स्थूलभद्रस्येव देशतः, गणोऽस्यास्तीति 'गणी' भावाचार्यस्तस्य पिटकमिव-रत्नकरण्डकमिव 'गणिपिटकं' द्वादशाङ्गं, तद्धारयन्ति ये ते तथा, एवं विधास्ते सर्वे गणधरा राजगृहे नगरे मासिकेन भक्तेनापानकेन पादपोपगमनान-16 शनं विधाय कालगता यावत्सर्वदुःखपहीणाः। यदुक्तं-x"मासं पाओवगया, सच्चे वि य सबलद्धिसंपन्ना। वजरिसहसंघयणा, समचउरंसा य संठाणा ॥१॥” स्थविर इन्द्रभूतिः स्थविर आर्यसुधर्मा च, एतौ द्वावपि स्थविरौ सिद्धिं गते महावीरे पश्चात् परिनिर्वृतौ। अर्थान्नव गणधरा भगवति जीवत्येव सिद्धाः, इन्द्रभूतिसुधर्माणी तु भगवति सिद्धे सिद्धाः। ये इमे आर्यतया अद्यत्वे वा-अद्यतने काले श्रमणा निग्रन्था विरहन्ति, एते सर्वे आर्यसुधर्मणोऽनगारस्य अपत्यीयाः'पुत्रस्थानीया:-शिष्यसन्तानजाः, अवशेषा गणधरा 'निरपत्या' शिष्यसन्तान| रहिताः, स्वस्खावसानसमये खवगणान् सुधर्मस्वामिनि निसृज्य सिद्धाः, अतो व्यवच्छिन्ना तच्छिष्यसन्ततिः ।
x मासं पादपोपगताः, सर्वेऽपि च सर्वलब्धिसम्पन्नाः । बज्रर्षभ (नाराच) संहननाः, समचतुरस्राश्च संस्थानाः॥१॥
For Private And Personal Use Only