SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobafrth.org Acharya Shri Kailassagarsuri Gyanmandir ततस्तेन रसेन भगवतः पारणकमभूत् । जातानि च दुन्दुभिनादादिपञ्चदिव्यानि । "राघशुक्लतृतीयायां, दानमासीत्तदक्षयम् । पर्वाक्षयतृतीयेति, ततोऽद्यापि प्रवर्त्तते ॥१॥" "श्रेयांसोपज्ञमवनौ, दानधर्मः प्रवृत्तवान् । वाम्युपज्ञमिवाशेष-व्यवहारनयक्रमः॥२॥" ततस्तत्र मिलितान्नागरजनान् श्रेयांसः प्रज्ञापयति-'भो जनाः! सद्गतिलिप्सया एवं शुद्धषणीयाहारभिक्षा देया' इति । त्वया कथं ज्ञातमेत'दिति लोकः पृष्टः स्वामिना सह खीयमष्टभवसम्बन्धमाचष्ट__यदा प्रभुरीशाने ललिताङ्गो x देवस्तदाऽहं निर्नामिकेति पूर्वभवाख्या खयम्प्रभानाम्नी देवी १, ततः पूर्वविदेहे | पुष्कलावतीविजये लोहार्गले नगरे भगवान् वज्रजस्तदानीमहं श्रीमती भार्या २, तत उत्तरकुरी भगवान् युगलिकोऽहं च युगलिनी ३, तत आये कल्पे द्वावपि मित्रदेवौ ४, ततः पश्चिमविदेहे भगवान् वैद्यपुत्रोऽहं | जीर्णश्रेष्टिपुत्रः केशवाख्यो मित्रं ५, ततोऽच्युते कल्पे देवौ ६, ततः पुण्डरी किण्यां भगवान् वज्रनाभश्चक्री अहं च सारथिः ७, ततस्सर्वार्थसिद्ध देवी ८, इह प्रभोः प्रपौत्र इति । | "एतच्छ्रुत्वा च ते सर्वे, श्रेयांसं साधुसाध्विति । भाषमाणाः प्रमुदिताः, स्थानं निजं निजं ययुः॥१॥" x प्रभोः सम्यक्त्वप्राप्त्यनन्तरभाविषु त्रयोदशभवेषु पञ्चमोऽयं भवः । त्रयोदशभवाश्चैते-"सार्थवाहो धनो' युग्म-धर्मी सौधर्मगः सुरः। महाबलो' | महीजानि-रीशाने 'ललिताकः ॥१॥ विबुधो 'वज्रजडाख्यो, राजा युगलधर्मवान् । सौधर्म त्रिर्दशो वैद्यो-ऽच्युतकल्पगतः सुरः॥२॥ 'बज्रनाभा'भिधश्चक्री, सुरः सर्वार्थसिद्धिगः। अहन्नादिजिनेशस्य, त्रयोदश भवा इति ॥३॥" For Private And Personal Use Only
SR No.020546
Book TitleParyushana Kalpsutram
Original Sutra AuthorN/A
AuthorKesharmuni, Buddhisagar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1942
Total Pages435
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy