________________
Shri Mahavir Jain Aradhana Kendra
www.kobasrth.org
Acharya Shri Kailassagarsuri Gyanmandir
पाITसहस्सं विद्वतं, तओ णं जे से हेमंताणं चउत्थे मासे सत्तमे पक्खे फग्गणबहले. तस्स णं फग्गुणबहलस्स हकारसीपक्खे णं पुवण्ह- कल्पार्थ
कालसमयंसि पुरिमतालस्स नगरस्स बहिआ सगडमुहंसि उजाणंसि नग्गोहवरपायवस्स अहे अट्टमेणं भत्तेणं अपाणएणं आसाढाहिं
नक्खत्तेणं जोगमुवागएणं झाणंतरिआए वट्टमाणस्स अणंते० जाव जाणमाणे पासमाणे विहरइ ॥ २१६ ॥ बोधिन्याः व्या०७
"कृतपारणकः स्वामी, श्रेयांससदनात्ततः। जगामान्यत्र नैकत्र, तिष्ठेच्छद्मस्थतीर्थकृत् ॥ २॥"
X कदाचिद्विहरन्सन्ध्यायां बहलीदेशे तक्षशिलाया उद्याने गत्वा प्रतिमया स्थितः प्रभुः, वनपालकेन वर्धापितो ॥१५॥
बाहुबलिः सन्ध्याकालत्वात्तत्क्षणमनागत्य प्रातर्महताऽडम्बरेण वन्दनार्थमागतः, परं विभातायामेव विभावयां प्रभुर्विहृतः, अतस्तत्र प्रभुमनवलोक्योचैः पुचकार, चकार च प्रभुपदस्थाने चिह्नरूपं सर्वरत्नमयं धर्मचक्रं । __ एवं प्रव्रज्यादिनादारभ्य वर्षसहस्रं प्रभोश्छद्मस्थकालस्तत्र सर्वसङ्कलितोऽपि प्रमादकालोऽहोरात्रः। एवं च यावदात्मानं भावयत एक वर्षसहस्रं व्यतिक्रान्तं । ततश्च योऽसौ हेमन्तस्य' शीतकालस्य चतुर्थो मासः सप्तमः पक्षः फाल्गुनबहुलस्तस्य फाल्गुनबहुलस्य एकादशीदिवसे पूर्वाह्नकालसमये पुरिमतालस्य नगरस्य-विनीतायाः शाखापुरविशेषस्य बहिस्ताच्छकटमुखाख्ये उद्याने न्यग्रोधवरपादपस्याधस्तादष्टमेन भक्तेनापानकेन उत्तराषाढानक्षत्रेण चन्द्रयोगमुपागते सति ध्यानान्तरिकायां वर्तमानस्य-शुक्लध्यानस्याद्यपादद्वयं ध्यायमानस्यानन्तवस्तुविषयं केवलमुत्पन्नं, यावत्सर्वभावान् जानन् पश्यंश्च विहरति । एवं च वर्षसहस्र व्यतिक्रान्ते पुरिमतालाख्ये विनीताशाखापुरे स्वामिनः केवलज्ञानमुत्पन्नं, तदैव च भरतस्य
सूत्र २१६ बाहुबलिकृता धर्म
चक्रस्थापना केवलावाप्तिश्च प्रमो
॥१५॥
For Private And Personal Use Only