________________
Shri Mahavir Jain Aradhana Kendra
www.kobeith.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पार्थ
नामपञ्चक
पर्युषणा०* कमलपत्रगृहीतजलाः समागता अलङ्कृतं प्रभुमालोक्य विस्मिताःक्षणं विमृश्य प्रभोश्चरणयोर्जलं प्रक्षिप्तवन्तःसूत्रं २१४
तच विलोक्य तुष्टः शक्रोऽचिन्तयत्-'अहो !! विनीता एते मनुजा इति द्वादशयोजनविस्तीर्णा नवयोजनवि- ऋषभस्य बोधिन्याः कम्भां विनीतानाम्नी नगरी निष्पादयेत्याज्ञापयद्वैश्रमणं। सोऽपि आज्ञासमनन्तरमेव रत्नकनकमयभवनपतिव्या०७
प्राकारविराजितां नगरीमवासयत्। ततः स्वामिना राज्ये हस्त्यश्वगवादिसङ्ग्रहपुरस्सरं उग्रभोगराजन्यक्ष- राज्या|त्रियलक्षणानि चत्वारि कुलानि स्थापितानि ।
भिषेकश्च ॥१४५॥
। तदानीं च कालपरिहाण्या ऋषभखामिकाले कल्पवृक्षफलाभावाद्ये इक्ष्वाकवस्ते इक्षुभोजिन:, शेषास्तु प्रायः पत्रपुष्पफलभोजिनोऽग्नेरभावादपक्कशाल्याद्यौषधीभोजिनश्चाभूवन, कालानुभावात्तदजीर्णे स्वल्पं खल्पतरं च भुक्तवन्तस्तस्याप्यजीर्णे भगवद्वचसा हस्ताभ्यां घृष्ट्वा त्वचमपनीय भुक्तवन्तस्तथाप्यजीणे प्रभूपदेशात्पत्रपुटे जलेन क्लेदयित्वा तण्डुलादीन् भुक्तवन्तः, एवमप्यजीणे कियन्तमपि कालं हस्ततलपुटे संस्थाप्य, तथाप्यजीणे कक्षासु खेदयित्वा, तथाप्यजीर्णे हस्ताभ्यां घृष्ट्वा पत्रपुटे क्लेदयित्वा हस्ततलसम्पुटे था संस्थाप्येत्यादिबहुभिः प्रकारैरन्नभोजिनो बभूवांसः । एवं च सत्येकदा दुमघर्षणान्नवोत्थितं प्रवृद्धज्वलज्वालं तृणकलापं कवलयन्तं अग्निमुपलभ्याभिनवरत्नबुद्ध्या
॥१४५॥ ग्रहणाय प्रसारितकरा दह्यमाना भीताः सन्तो युगलिकाः प्रभु विज्ञपयामासुः। भगवता चाग्नेरुत्पत्ति विज्ञाय भो युगलिकाः!उत्पन्नोऽग्निः, अत्र शाल्याद्यौषधीनिधाय भुमध्वं, यतस्ताः सुखेन जीर्यन्ति' इत्युपाये कथिते
For Private And Personal use only