SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra पर्यु. क. २५ FOXOXOX www.kobatirth.org उसमे णं अरहा कोसलिए कासवगुत्ते णं, तस्स णं पंच नामधिज्जा एवमाहिजंति, तं जहा उसमे इ वा, पढमराया इ वा, पढमभिक्खायरे इ वा, पढमजिणे इ वा, पढमतित्थयरे इ वा ॥ २१४ ॥ सुनन्दा सुषुवे, तदनु चैकोनपञ्चाशत्पुत्रयुगलानि क्रमेण सुमङ्गला प्रसूतवती । Acharya Shri Kailassagarsuri Gyanmandir २१४- ऋषभोऽर्हन् कौशलिकः काश्यपगोत्रः, तस्य पञ्च नामधेयानि एवमाख्यायन्ते, तद्यथा - ऋषभ इति वा १, प्रथमराजा इति वा २, प्रथमभिक्षाचर इति वा ३, प्रथमजिन इति वा ४, प्रथमतीर्थकर इति वा ५ । तत्र प्रथमराजा त्वेवं - कालानुभावात्क्रमेण प्रचुरतरकषायोदयादन्योऽन्यं विवदमानानां युगलिकानां दण्डनीतिस्तावद्विमलवाहन-चक्षुष्मत्कुल करकालेऽल्पापराधित्वेन हकार रूपैवाभूत्, यशखिनोऽभिचन्द्रस्य च काले स्वल्पेऽपराधे हक्काररूपा महति चापराधे मक्काररूपा, प्रसेनजिन्मरुदेवनाभिकुलकरकाले च जघन्यमध्यमो त्कृष्टापराधेषु क्रमेण हक्कारमक्कारधिक्काररूपा दण्डनीतयोऽभूवन् । एतेषां कुलकराणां उत्पत्तिकालदेहोन्नतत्वादिवृत्तान्तस्त्वन्यटीकातोऽवसेयः । एवमपि नीत्यतिक्रमणे प्रभुं ज्ञानादिगुणाधिकं विज्ञाय युगलिकैर्विहिते निवेदने स्वाम्याह- नीत्यतिक्रमतां दण्डं सर्वं नृपः करोति स चाभिषिक्तोऽमात्यादिपरिवृतश्च भवति' । ततस्तैरुक्तंअस्माकमपीदृशो राजा भवतु । खाम्याह याचध्वमस्मज्जनकं नाभिकुलकरं, याचितस्तैर्नाभिः । ततो 'भो ! भवतां राजा ऋषभ एवं' इत्युक्तवान्नाभिः । ततस्ते राज्याभिषेकार्थमुदकानयनाय सरोवरं गताः । इतश्च शक्रः स्वजीतमिति समागत्य मुकुटकुण्डलाभरणादिपरिष्क्रियापूर्वकं प्रभुं राज्येऽभिषिञ्श्चति स्म । युगलिकास्तु For Private And Personal Use Only *X*X*XXXXO
SR No.020546
Book TitleParyushana Kalpsutram
Original Sutra AuthorN/A
AuthorKesharmuni, Buddhisagar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1942
Total Pages435
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy