________________
Shri Mahavir Jain Aradhana Kendra
www.kobairth.org
Acharya Shri Kailassagarsuri Gyanmandir
दीनामनागमनादिकमविलम्बेनैव हरिणैगमेषिद्वारा गर्भपरिवर्तनस्य कारितत्वात् । नहीयद्दीघकालीनो ड्यशीतिदिवसात्मकः सम्भवति सामान्यमनुजस्यापि विमर्षणकालः, कथं नाम शक्रस्य । ___ अतो नायमकल्याणकवादिनिवर्तितं कल्याणकलक्षणमात्यन्तिकमवन्ध्यमपि च, किन्तु-तदेव हि कल्याणकं यद्भुवने आश्चर्यभूतं कल्याणफलं च जगजीवानां भवति, एतदेव हि कल्याणकलक्षणमात्यन्तिकमवन्ध्यमपि च। न चैतदनागमिकं, यदवोचुः श्रीमरिभद्रसूरिपादाः यात्रापश्चाशके-'भुवणऽच्छेरयभूआ, कल्लाणफला य जीवाणं ॥३०॥" इति, एवमेवास्य गाथापाश्चात्यार्द्धस्य व्याख्यायां श्रीमत्सुविहितग्रामण्यः खरतरगच्छगगनाङ्गण दिनमणयो नवाङ्गवृत्तिविधायकाः परमगुरवः श्रीमदभयदेवाचार्याः "भुवनाश्चर्यभूतानि-निखिलभुवनाद्भुतभूतानि, त्रिभुवनजनानन्दहेतुत्वात् , तथा कल्याणफलानि च-निःश्रेयससाधनानि, चः समुच्चये, जीवाना-प्राणिनामिति" इति।न च किमपि भुवनाश्चर्यभूतत्वं जीवानां कल्याणफलत्वं वा सञ्जाघटीति ऋषभराज्याभिषेके, शान्तिनाथादिचक्रित्वराज्याभिषेकस्येतोऽप्यधिकतरत्वादनेकेषां वधबन्धनादिनिवन्धनत्वाच । | श्रीमन्महावीरगर्भापहारे तु गर्भाधानत्वमेव प्रकारान्तरेण, कथमन्यथा समवायाङ्गोक्ता तीर्थकृद्भवात्माक षष्ठं पोहिलभवमिति गणधरोक्तिः सत्या भवेत् ?, कथं च "एए-चउद्दस महासुमिणे, सबा पासेइ तित्थयरमाया ।। जं रयणि वकमई, कुच्छिसि महायसो अरहा ॥१॥" इत्येतत्कल्पसिद्धान्तोक्तनियमानुसारं त्रिशलया चतुर्दशमहाखमा दृष्टाः?, किं कारणं? यत्सूत्रकारेणापि तेषामेव विस्तृतं वर्णनं विहितं ?, कथं वा साम्प्रतमपि पर्युषणायां
For Private And Personal Use Only