SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir पर्युषणा कल्पार्थबोधिन्याः व्या० ७ सूत्रं २०९ | ऋषमख पञ्चकल्लाणकान्यक| णकत्वं च तद्राज्याभिषेकस्य ॥१४२॥ उत्तराषाढायां च्युतः, च्युत्वा गर्भ व्युत्क्रान्तः, यावदभिजिन्नक्षत्रे 'परिनिर्वृतः' निर्वाणं प्राप्तः। ___ जम्बूद्वीपप्रज्ञप्तावृषभचरित्रवर्णने "उसमे णं अरहा कोसलिए पंचउत्तरासाढे अभीइछठे होत्था" इति पाठे सत्यपि यथाऽत्र "चउउत्तरासाढे अभीइपंचमे" इति पाठः समुपलभ्यते न तथा वीरचरित्रवर्णने काप्याचाराङ्ग-स्थानाङ्गादि- शास्त्रेषु “समणे भगवं महावीरे पंचहत्युत्तरे होत्था" इति पाठवत् "चउहत्युत्तरे होत्था" इत्यपि पाठ उपलभ्यते। ___ अन्यच्च "तदेव हि कल्याणकं यत्रासनप्रकम्पप्रयुक्तावधयः सकलसुरासुरेन्द्रा जीतमिति विधित्सवो युगपत्ससम्भ्रमा उपतिष्ठन्ते" इति शान्तिचन्द्रीयजम्बूद्वीपप्रज्ञप्तिवृत्तिगतं कल्याणकलक्षणं नात्यन्तिकं, तदेवात्यन्तिकं यत्सर्वदा सर्वत्रावन्ध्यं, भवेदात्यन्तिकमेतत्प्रागुक्तं कल्याणकलक्षणं चेत्तदा वीरस्य देवानन्दाकुक्षीगर्भाधाने जीतमिति विधित्सवो युगपत्ससम्भ्रमाः सकलसुरासुरेन्द्राः कथं नोपतस्थुः ।। ननु किं प्रमाणं ? यन्नैवोपतस्थुः सुरेन्द्रास्तस्मिन् समये इति चेत्कल्पसिद्धान्त एव प्रमाणमत्रार्थे, तथा हि"तेणं कालेणं ते णं समए णं सक्के देविंदे" इत्यादितः प्रारभ्य "समणे भगवं महावीरेxxx आसोअबहुलस्स तेरसीपक्खे णं बासीइराइदिएहिं विइकंतेहिं तेसीइमस्स राइंदिअस्स अंतरा वट्टमाणे हिआणुकंपएणं देवेणं हरिणेगमेसिणा xxx तिसलाए खत्तिआणीए xxx कुच्छिसि गम्भत्ताए साहरिए" इत्यादिना स्फुटतरमवगम्यते यद्यशीतिदिवसात्यय एव ज्ञातं शक्रेण श्रीमन्महावीरदेवस्य देवानन्दाकुक्ष्यवतरणं, नार्वाक । ज्ञातभवनानन्तरमेव ससम्भ्रममभ्युत्थाय सप्ताष्टपदान्यभिमुखं गत्वा भावतः शक्रस्तवेन वन्दित्वा सिंहासने समुपविश्य विमृश्य चैतादृशे कुले तीर्थङ्करा ॥१४२॥ For Private And Personal Use Only
SR No.020546
Book TitleParyushana Kalpsutram
Original Sutra AuthorN/A
AuthorKesharmuni, Buddhisagar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1942
Total Pages435
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy