________________
Shri Mahavir Jain Aradhana Kendra
www.kobefith.org
Acharya Shri Kailassagarsuri Gyanmandir
-
--
सूत्रं १७८ नेमि-राजीमत्योर्भवनवकं, रथनेमे प्रतिबोधश्च
पर्युषणाआवां देवदेव्यौ २, तृतीये भवेऽहं चित्रगतिनामा विद्याधरोऽभवं इयं रत्नवतीनाम्नी मत्पत्नी ३, चतुर्थे भवे कल्पार्थ
माहेन्द्रे कल्पे द्वावप्यावां देवी ४, पञ्चमे भवेऽहं अपराजिताख्यो राजा एषा तु प्रियतमानाम्नी मम राज्ञी५, बोधिन्याःषष्ठे भवे एकादशे कल्पे द्वावपि देवी ६, सप्तमे भवेऽहं शखो नाम राजा एषा मम यशोमती राज्ञी ७, व्या० अष्टमे भवेऽपराजिते विमाने द्वावपि देवौ ८, नवमे भवेऽहं एषा च राजीमती ९। ततोऽन्यत्र विहृत्य पुनरपि
“विहरनन्यदा स्वामी, रैवते समवासरत् । रथनेमिरुपादत्त, चारित्रं श्रीजिनान्तिके ॥७॥" ॥१३६॥
"नेमि चान्यदा नत्वा, रथनेमिः प्रतिव्रजन् । बाधितो वृष्टिकायेन, प्राविशत्कन्दरां गिरेः॥८॥"
"राजीमत्यपि मेघाम्बु-बाधिता तद्गुहान्तरे । रथनेमिमजानाना, तत्रस्थं प्राविशत्तदा ॥९॥” तत्र क्लिन्नानि वस्त्राणि शोषयितुं परितोऽक्षैप्सीत्सा,ततश्च अपहसितसुरवधूरामणीयकां साक्षात्कामरमणीमिव रमणीयां तां विवस्त्रामालोक्य भ्रातृवैरादिव मदनेन मर्मणि हतः कुललजां धीरतामपि चोत्सृज्य रथनेमिर्जगाद
"आगच्छ खेच्छया भद्रे !, कुर्वहे सफलं जनुः । उभावपि वयःप्रान्ते, चरिष्यावस्तपोविधिम् ॥१॥ श्रुत्वेत्यशुत्यमव्याज-चित्ता संवीय वाससी। सती स्पष्टमभाषिष्ट, धारयित्वा च धीरताम् ॥२॥ महानुभाव! संरम्भः, कोऽयं? ते भवकारणम् । संस्मर खप्रतिज्ञां तां, प्रव्रज्यां मा स्म विस्मर ॥३॥ पूर्व गृहस्थया यस्त्वं, मया वाचाऽपि नेहितः। साऽहं व्रतप्रतिज्ञायां, त्वामद्य कथमाद्रिये ॥४॥ अगन्धनकुले जाता-स्तिर्यश्चो ये भुजङ्गमाः। तेऽपि वान्तं न पिबन्ति, त्वं नीचः किं ततोऽप्यसि? ॥५॥वराटिकाकृतेऽकस्मात्, मा स्म कोर्टि विनाशय । तस्माद्धी
॥१३६॥
For Private And Personal Use Only