________________
Shri Mahavir Jain Aradhana Kendra
www. kobafrth.org
Acharya Shri Kailassagarsuri Gyanmandir
जे से यासाणं तच्चे मासे पंचमे पक्खे आसोयबहुले, तस्स णं आसोयबहुलस्स पन्नरसीपक्खे णं दिवसस्स पच्छिमे भाए उर्जितसेल सिहरे वेडसपायवस्स अहे छटे[अट्टमेणं भत्तेणं अपाणएणं चित्तानक्खत्तेणं जोगमुवागएणं झाणंतरियार वट्टमाणस्स अणंते अणुत्तरे | (निवाघाए निरावरणे जाव केवलवरनाणदसणे समुप्पण्णे), जाव सवलोए सव्वजीवाणं सधभावे जाणमाणे पासमाणे बिहरह ॥ १७८ ॥X पक्ष आश्विनबहुलस्तस्य आश्विनबहुलस्य पञ्चदशीदिवसे, अमावास्यायामित्यर्थः । दिवसस्य पश्चिमे भागे उज्जय|न्ताख्यशैलस्य शिखरे, वेतसनामपादपस्य अधस्तात् षष्ठे[अष्टमे]न भक्तेनापानकेन, चित्रानक्षत्रेण चन्द्रयोगमुपागते सति ध्यानान्तरिकायां-शुक्लध्यानस्यायपादद्वये वर्तमानस्य अनन्ते अनुत्तरे निर्व्याघाते निरावरणे यावत्केबलवरज्ञानदर्शने समुत्पन्ने, यावत्ताभ्यां सर्वलोके सर्वजीवानां सर्वभावान् जानन् पश्यंश्च विहरति ।
तत्र रैवतकस्थे सहस्राम्रवणे प्रभोः केबलमुत्पन्नं, ततः___ "उद्यानपालकस्तत्र, गत्वा विष्णुये जिज्ञपत् । कोटीादशरूप्यस्य, सार्दास्तस्मै ददावसौ ॥१॥ सर्वदा वन्दितुं तीर्थ-करं हरिरुपागमत् । भृङ्गीव मालती राजी-मत्यपि प्रहमानसा ॥२॥ भवान्धकूपतो रज्जु-देशीयां देशनां प्रभोः। निशम्य प्रार्थयाश्चक्रे, वरदत्तनृपो व्रतम् ॥३॥ प्रभुस्तं दीक्षयामास, द्विसहस्रनृपान्वितम्। बहुकन्या|ऽन्वितां राजी-मती च समहोत्सवम् ॥४॥ आजन्मस्वामिपादाज-सेवाबद्धमनोरथाम् । वीक्ष्य राजीमती विष्णुः,। पप्रच्छ लेहकारणम् ॥५॥ ततोधनधनवती-भवादारभ्य नेम्यपि। तयासह खसम्बन्ध-माख्यदष्टभवावधिं ॥६॥" तथाहि-प्रथमे भवेऽहं धनो नाम राजा इयं च धनवतीनाम्नी मम राज्ञी अभूत् १, द्वितीये भवे सौधर्मे कल्पे
XXOXOXXXXXXX**
For Private And Personal Use Only