SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir पर्युषणा० कल्पार्थ बोधिन्याः व्या०७ सूत्रं १७६ नमेर्विवाहोत्सवः, राजीमती ॥१३३॥ विनोदजल्प: नोदमुक्तं-'भो राजीमति ! वरः प्रथमं गौरो विलोक्यते, अपरे गुणास्तु प्रस्तावे तत्संस्तवे ज्ञायन्ते, तद्गौरत्वं त्वस्य कन्जलानुकारमेव दृश्यते, ततो राजीमती सासूर्य प्रत्याह-सख्यौ ! अद्य यावत् 'युवां चतुरे' इति भ्रमो मेऽभवत् स साम्प्रतं भन्नः, यतो भवतीभ्यां सकलगुणकारणं भूषणमपि श्यामत्वं दूषणतया निरूपितं, शृणुतां| तावत्सावधानीभूय भवन्त्यौ श्यामत्वेश्यामवस्त्वाश्रयणेऽपि च गुणान् केवलगौरत्वेपगुणांश्च, इति कृष्णत्वे गुणाः। तथा हि-*"भू-चित्तवल्ली-अगुरु, कत्थूरी-घण-कणीणिगा-केसा । कसव-मसी-रयणी, कसिणा एए अणग्यफला १६ कप्पूरे अंगारो, चंदे चिंधं कणीणिगा नयणे । भुजे मरीअं चित्ते, रेहा कसिणा वि गुणहेऊ॥२॥” इति कृष्णाश्रये गुणाः। "खारं लवणं दहणं, हिमं च अइगोरविग्गहो रोगी। परवसगुणो अ चुण्णो, केवलगोरत्तणेऽवगुणा ॥३॥" | एवं च तासामन्योऽन्यं जल्पे जायमाने पशूनामार्त्तखरं श्रुत्वा श्रीनेमिः साक्षेपं प्राह-'सारथे! कोऽयं दारुणः स्वरः? । सारथिः प्राह-'युष्मद्विवाहे भोजनार्थमेकत्रीकृतानां पशूनामयं वरः। ततः प्रभुश्चिन्तयति स्मधिगिमं विवाहोत्सवं, यत्रानुत्सवोऽमीषां जन्तूनां । इतश्च "हल्ली सहिओ ! किं मे दाहिणं चक्खू परिप्फुरइ ?"त्ति जल्पन्तीं राजीमती प्रति सख्यौ 'प्रतिहतमशेषममङ्गलं ते इत्युक्त्वा थुत्थुत्कारं कुरुतः। नेमिस्तु प्राह-'सारथे! रथमितो निवर्तय, नाहं परिणेष्ये । अत्रान्तरे प्रभुं पश्यन्नेको हरिणः खग्रीवां हरिणीग्रीवोपरि कृत्वा स्थित * भूश्चित्रवयगुरु, कस्तुरी घनः कनीनिका केशाः । कषपट्ट मषी रजनी, कृष्णा एतेऽनर्धफलाः॥ करेऽझारश्चन्द्रे चिद्धं कनीनिका नयने । भोज्ये मरीचं चित्रे, रेखा कृष्णा अपि गुणहेतवः ॥२॥ क्षार लवणं दहनं, हिमं च अतिगौरविग्रहो रोगी। परवशगुणश्च चूर्णः, केवलगौरत्वेऽवगुणाः॥t हले सख्यो । कि मे दक्षिणं चक्षुः परिस्फुरति है। ॥१३३॥ For Private And Personal Use Only
SR No.020546
Book TitleParyushana Kalpsutram
Original Sutra AuthorN/A
AuthorKesharmuni, Buddhisagar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1942
Total Pages435
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy