________________
Shri Mahavir Jain Aradhana Kendra
पर्यु. क. २३
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
| भिधाने मिथो वार्त्तयतः' इति जगाद । तदा च मृगलोचना प्रभुमालोक्य चन्द्राननां प्राह- 'सखी ! चन्द्रानने ! | स्त्रीवर्गे एका राजीमत्येव वर्णनीया, यस्या अयमेतादृशो वरः पाणिग्रहणं विधास्यति' । सा प्राह - [ ॥१॥" "राजीमतीमद्भुतरूपरम्यां निर्माय धाताऽपि यदीदृशेन । वरेण नो योजयति प्रतिष्ठां, लभेत विज्ञानविचक्षणः काम् ?
इतश्च वादित्रनादमाकर्ण्य राजीमती मातृगेहात्सखीमध्ये प्राप्ता सती 'हे सख्यौ ! भवतीभ्यामेवैकाकिनीभ्यां साडम्बरं समागच्छन् वरो विलोक्यते, किमहं विलोकयितुं न लभेयं ?' इति जल्पन्ती बलात्तदन्तरे स्थित्वा नेमिमालोक्य साश्चर्य चिन्तयति स्म -
" किं पातालकुमारः ?, किं वा मकरध्वजः ? सुरेन्द्रः किम् ? । किं वा मम पुण्यानां प्राग्भारो मूर्त्तिमानेषः १ ॥१॥” "तस्य विधातुः करयो-रात्मानं न्युञ्छनं करोमि मुदा । येनैष वरो विहितः, सौभाग्यप्रभृतिगुणराशिः ॥ २ ॥”
राजीमत्यभिप्रायं परिज्ञाय मृगलोचना सप्रीतिहासं प्राह - 'हे सखि ! चन्द्रानने ! समग्र गुण पूर्णेऽप्यस्मिन् वरेऽस्त्येवैकं तु दूषणं, परं वरार्थिन्या राजीमत्याः शृण्वत्या वक्तुं न शक्यते । चन्द्रानना प्राह- 'सखि मृगलोचने ! मयाऽपि ज्ञातं तदूषणं, परं साम्प्रतं मौनमेवाश्रयणीयं । ततो राजीमती त्रपया मध्यस्थतां दर्शयन्ती प्राह'हे सख्यौ ! यस्याः कस्या अपि भुवनाद्भुतभाग्यायाः कन्याया अयं वरो भवतु, परं समग्र गुणसुन्दरेऽप्यस्मिन् वरे दूषणं तु क्षीरोदधौ क्षारत्वमिव, कल्पवृक्षे कार्पण्यमिव, चन्दने दौर्गन्ध्यमिव, भास्करे तमः स्तोममिव, मेरौ चलत्वमिव, कनके श्यामत्वमिव, लक्ष्म्यां दारिद्र्यमिव, सरखत्यां मौर्यमिवासम्भाव्यमेव' । ततस्ताभ्यां सवि
For Private And Personal Use Only