________________
Shri Mahavir Jain Aradhana Kendra
www.kobefith.org
Acharya Shri Kailassagarsuri Gyanmanet
पीठिका
कल्पमाहात्म्यं, तत्प्रणेता, पूर्व श्रुतमानम्
पर्युषणायुतादेवाङ्करोत्पत्तिर्जायते, नान्यथा, तथेदं कल्पश्रवणमपि देवगुरुपूजा-प्रभावना-साधर्मिकवात्सल्यादिकल्पार्थ- सामग्रीसंयुतमेव यथोक्तफलहेतुः स्यात् । अन्यथा-"x इक्को वि नमुक्कारो, जिणवरवसहस्स वद्धमाणस्स । संसारसागराओ, बोधिन्याः
तारेइ नरं व नारिं वा ॥१॥" इति श्रुत्वा किञ्चित्प्रयाससाध्यं कल्पश्रवणमप्युपेक्षणीयं स्यात् । व्या०१
__ अथ "पुरुषविश्वासे वचनविश्वासः" इति न्यायाचनरूपापन्नस्यास्य सूत्रस्य वर्णितमाहात्म्यसिद्धये तत्प्रणेता| प्ररूपणीयः, स च सर्वाक्षरसन्निपातविचक्षणश्चतुर्दशपूर्वविद्युगप्रधानः श्रीमद्भद्रबाहुखामी दशाश्रुतस्कन्धाख्यच्छेदसूत्रस्याष्टमाध्ययनत्वेन प्रत्याख्यानप्रवादाभिधाननवमपूर्वादुद्धृतवानिदं पर्युषणाकल्पसूत्रं । । पूर्वाणि च क्रमशः प्रथममेकेन, द्वितीयं द्वाभ्यां, तृतीयं चतुर्भिः, चतुर्थमष्टभिः, पञ्चमं षोडशभिः, षष्ठं| द्वात्रिंशद्भिः, सप्तमं चतुःषष्ट्या, अष्टममष्टाविंशत्यधिकेन शतेन, नवमं षट्पञ्चाशदधिकेन शतद्वयेन, दशमं द्वादशाधिकेन शतपञ्चकेन, एकादशं चतुर्विंशत्यधिकेन सहस्रेण, द्वादशं अष्टचत्वारिंशदधिकेन सहस्रद्वयेन, त्रयोदशं पण्णवत्यधिकेन सहस्रचतुष्केण, चतुर्दशं च द्विनवत्यधिकेन सहस्राष्टकेन हस्तिप्रमाणमषीपुञ्जेन लेख्यं, सर्वाणि च पूर्वाणि षोडशसहस्रख्यशीत्यधिकैस्त्रिभिः शतहस्तिप्रमाणमषीपुजैर्लेख्यानि । तस्मान्महा|पुरुषप्रणीतत्वेन मान्यमिदं प्रतिसूत्रमनन्तार्थकमपि च ।
x एकोऽपि नमस्कारो, जिनवरवृषभस्य वर्द्धमानस्य । संसारसागरात् , तारयति नरं वा नारी वा ॥१॥
XoxooXXXXXXXXX
For Private And Personal Use Only