________________
Shri Mahavir Jain Aradhana Kendra
www.kobairth.org
Acharya Shri Kailassagarsuri Gyanmandir
KOKOKOXOXOXOXOXOKOKOKEKO
यदुक्तं-"x सवनईणं जइ हुज्ज, बालुआ सबोदहीण जं उदयं । तत्तो अणंतगुणिओ, अत्थो इकस्स सुत्तस्स ॥१॥"* तथा “मुखे जिह्वासहस्रं स्यात् , हृदये केवलं यदि । तथापि कल्पमाहात्म्य, वक्तुं शक्यं न मानवैः ॥१॥
अथास्य कल्पसूत्रस्य वाचने श्रवणेऽपि चाधिकारिणो मुख्यतः साधुसाध्व्य एव, तत्रापि कालतो रात्री विहितकालग्रहणोद्देशसमुद्देशादियोगानुष्ठानो वाचनोचितस्साधुर्वाचयति, अन्ये तु शृण्वन्ति । साध्वीश्रावणादिकारणे पुनर्निशीथचूाद्युक्त विधिना दिवाऽपि वाचन-श्रवणयोरधिकारः, एषा प्रवृत्तिः प्रागभूत्, साम्प्रतं तु वीरादशीत्यधिकनवशतवर्षातिक्रमे मतान्तरेण विनवत्यधिकनवशतवर्षातिक्रमे पुत्रमरणार्तस्य ध्रुवसेनभूपस्य समाधिमाधातुमानन्दपुरे (वडनगरे) श्रावकपर्षदि समहोत्सवं वाचयितुमारब्धं, ततःप्रभृति चतुर्विधोऽपि सङ्घः श्रवणेऽधिकारी । वाचने तु विहितयोगानुष्ठानः* साधुरेव, साध्वभाववति क्षेत्रादौ विहितयोगानुष्ठाना साध्व्यपि, अन्यथा तासां सांवत्सरिकप्रतिक्रान्त्यादिकृत्यानामपरिपूर्तिः, सांवत्सरिककृत्येषु कल्पसूत्रकर्षणस्यापि कृत्यत्वेनोक्तत्वात् , न च काप्युक्तं कल्पसूत्रवाचनविरहितैव गृहिज्ञातपर्युषणा श्रमणीनामिति बोध्यम् +।
x सर्वनदीनां यावत्यो भवेयु-ालुका सर्वोदधीनां च यदुदकं । ततोऽनन्तगुणितो-ऽर्थ एकस्य सूत्रस्य ॥१॥
* सत्यां शक्तावकृत्वा योगानुष्ठानं नैव कर्त्तव्यं सूत्रवाचनं, यत उक्तं-"योगरहित-सम्यगकृतयोगोपचारं" इत्यावश्यकवृत्ती ०३१ पत्रे श्रीमद्धरिभद्रसूरि|पुरन्दरैः । तथा "विना योगकालग्रहणैर्विना तपसा च [यः पठति वाचयति श्रावयति, अकृततपसः पार्श्वे च यः शृणोति तस्य सूत्राज्ञाभाः, भागमाज्ञाभङ्गो हि महते संसाराय" इत्याचाराङ्गदीपिकायां श्रीमजिनहंससूरीश्वरैः । अतः सत्यामात्मशक्ताववश्यं योगानुष्ठानपुरस्सरमेव वाचनीयः सिद्धान्तः; नान्यथेति।।
+ प्रलपन्ति ये पण्डितम्मन्याः यद् व्याख्यानमात्रस्यापि निषेधः श्रमणीनां, पुरस्कुर्वन्ति च खमतसिद्धये "केवलथीणं पुरओ, वक्खाणं पुरिसऽग्गओ अज्जा ।
For Private And Personal Use Only