________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ययौ । धरणेन्द्रः सदेवीकः, प्रभोरन्ते गुरुत्वरः ॥ ४ ॥ ऊर्ध्वमुल्लामयाञ्चक्रे - घस्तात्कुण्डलिकाकृतिः । धरणेन्द्रः प्रभुं मूर्ति, फणाछत्रावृतं व्यधात् ॥ ५ ॥ निर्भर्त्य त्रासितो दूरं, दुरात्मा कठवारिदः । विमुक्तो धरणेन्द्रेण, सप्रभोः शरणं श्रितः ॥६॥ कृतं धरणपत्नीभिः, सङ्गीतं पुरतः प्रभोः । पुनस्तुल्यमना जज्ञे, द्वयोरप्युपरि प्रभुः॥७॥”
कजीवासुरोऽपि प्रभुशरणं प्रपद्य क्षमयित्वा च खापराधं दशभविकवैरवियुक्तो जातः, भवदशकं चेदं - “भ्रातरावरविन्दस्य, नरेशस्य पुरोहितौ । कमठो मरुभूतिश्च +, कुर्कुटोरगकुञ्जरौ x ॥ १ ॥ पञ्चमे नरके पूर्वः, सहस्रारे सुरैः परः । फणी किरणवेगाख्यो,* विद्याधरधराघवः ॥ २ ॥ पञ्चमे नरके पूर्वी - ऽच्युतकल्पे सुरः पैरः । भिल्लः प्रत्यगविदेहेषु, वज्रनाभधराधिपः । ॥३॥ सप्तमे नरके पूर्वी, मध्यमग्रैवेयके परः । पश्चास्यः प्रागविदेहेषु, सुवर्णबाहुचपि ६ ॥४॥ चतुर्थे नरके पूर्वः, प्राणते त्रिदशोऽपरः । कठोऽर्हचं दशेत्युक्ता भवाः कमठ-पार्श्वयोः ॥ ५ ॥ भवे त्वेकादशे मेघ-कुमारः कमठः शठः । कृत्वा पार्श्वप्रभोर्वृष्टि-कष्टं वैरोज्झितोऽजनि ॥ ६॥” एवं च छाद्मस्थ्येन विहरतः प्रभोः कलिकुण्ड-कुर्कुटेश्वरादितीर्थस्थापना जाता ।
+ कमठोऽनाचारीति ज्ञात्वा राज्ञा निर्विषयीकृतस्तापसीभूतो वन्दनार्थमागतं मरुभूर्ति शिलाप्रक्षेपेण जघान । x सरः पङ्के निममं मरुभूतिजीवं कुञ्जरं कुर्कुटोरगीभूतः कमठजीवो दष्ट्वाऽमारयत् । * श्रमणीभूय विहरन् पुष्करवरद्वीपे वैताढ्यशैले कायोत्सर्गस्थो मरुभूतिजीवः किरणवेगाख्यो विद्याधरमुनिस्तत्रैव फणितयोत्पन्नेन कमठजीवेन दष्ट्वा मारितः । t श्रमणीभूय चारणलब्ध्या विहरन् ज्वलनगिरौ कायोत्सर्गस्थं वज्रनाभराजर्षिं तत्रैव भिल्लत्वेनोत्पन्नः कमठजीव एकेन शरेण जघान । § चक्रीत्वं प्रपात्य श्रमणत्वे विहरन्नटव्यां प्राप्तः स मुनिर्दर्शनमात्रादेवोल्लसितकोपेन कमठजीवसिंहेन मारितः ।
For Private And Personal Use Only