________________
Shri Mahavir Jain Aradhana Kendra
www.kobasrth.org
Acharya Shri Kailassagarsuri Gyanmandir
समणस्सणं अट्ठसया अणुत्तरोववाइयाणं गइकल्लाणाणं ठिहकल्लाणाणं आगमेसिमदाणं उक्कोसिआ अणुत्तरोववाइयाणं संपया हुत्था
समणस्स णं भगवओ महावीरस्स दुविहा अंतगडभूमी हुत्था, तं जहा-जुगंतगडभूमी य परियायंतगडभूमी य, जाव तच्चाओ पुरिसजुगाओ जुगंतगडभूमी, चउवासपरियाए अंतमकासी ॥ १५०॥
तेणं काले णं ते णं समए णं समणे भगवं महावीरे तीसं वासाई अगारवासमझे वसित्ता, साइरेगाई दुवालसवासाई छउमत्थ१४९-श्रमणस्य अष्टौ शतानि 'अनुत्तरोपपातिकानां' अनुत्तरविमानोत्पन्नमुनीनां, येषां गतिर्देवसत्का कल्याणी-उत्कृष्टा,स्थितिरपि देवायुःसत्का कल्याणी,यद्वागतौ-माणगमने स्थितौ-जीवितेऽपिचकल्याणं येषां। पुनः आगमिष्यद्भद्राणां, आगामिभवे सेत्स्यमानत्वात्, एतावत्युत्कृष्टा अनुत्तरोपपातिकानां सम्पदाऽभवत् ।
१५०-श्रमणस्य भगवतो महावीरस्य द्विविधा 'अन्तकृतः' मोक्षगामिनस्तेषां 'भूमि' कालोऽन्तकृद्भूमिः अभवत्, तद्यथा-युगान्तकृद्भूमिः पर्यायान्तकृद्भूमिश्च । तत्र 'युगानि' कालविशेषास्तानि च क्रमवर्तीनि, ततो
ऽनुक्रमभाविनो गुरुशिष्यरूपाः पुरुषास्तेऽपि 'युगा' युगप्रधानास्तैः प्रमिता अन्तकृमियुगान्तकृद्भूमिः, ततSस्तृतीयं पुरुषयुग-जम्बूस्वामिनं यावत् श्रीवीरतीर्थे सिद्धिमार्गों वहमानोऽभूदेषा युगान्तकृद्भूमिः । 'पर्याय
केवलित्वकालस्तमाश्रित्य चतुर्वर्षपर्यायेऽन्तमकार्षीदिति पर्यायान्तकृद्भूमिः, अर्थात्खामिनो ज्ञानोत्पत्त्यनन्तरं चतुर्पु वर्षेष्वतीतेषु भगवच्छासने सिद्धिमार्गो वहमानो जातः जम्बूखामिनं यावच स्थितः। | १५१-तस्मिन् काले तस्मिन्समये श्रमणो भगवान महावीरस्त्रिंशद्वर्षाणि 'अगारवासमध्ये' गृहस्थाश्रमे उषित्वा 'सातिरेकाणि' सार्द्धषण्मासाधिकानि द्वादशवर्षाणि छद्मस्थपर्यायं पालयित्वा 'देशोनानि सार्द्ध
For Private And Personal Use Only