________________
Shri Mahavir Jain Aradhana Kendra
www.kobasrth.org
Acharya Shri Kailassagarsuri Gyanmandir
पर्युषणा० alच गुणदोषयोरन्यतरदपि न करोति; राज्ञोक्तं-किमनेनापि भस्मनि हुततुल्येन ? । तृतीयःप्राह-ममौषधं सद्भावे
पीठिका कल्पार्थ
व्याधि हन्ति, असद्भावेऽपि च शरीरसौन्दर्यादिकं जनयति, राज्ञा 'समीचीनमिदमौषधमिति भणित्वा तृतीयौषधबोधिन्याःकारिता तदीयौषधेन निजपुत्रस्य चिकित्सा । तद्वदयमपि दशविधः कल्पः सन्तं दोषं शोषयति, तदभावे च
| निदर्शनं, व्या०१
पोषयति श्रमणधर्ममिति । तदेवं समुपस्थिते पर्युषणापर्वणि मङ्गलार्थ पञ्चभिः षड्भिः सप्तभिर्वा दिनैनवभिरे- नववाच
कादशभित्रयोदशभिर्वा x वाचनाभिः श्रीकल्पसूत्रं वाचनीयं, तच्च॥८॥
बनाया अनिx “पूर्व पञ्चरात्रं प्रतिक्रमणानन्तरं पाक्षिकसूत्रपाठवत्साधूनां कल्पसूत्रश्रवणमुपलभ्यते, परं अयं विधिय॑वच्छिन्नः। साम्प्रतं तु श्रीवीरनिवृतेर्नवसु वर्षशतेषु यतत्वम् अशीत्यधिकेषु गतेषु आनन्दपुरे पुत्रमरणार्तध्रुवसेननृपसन्तोषनिमित्तं सभासमक्षं कल्पो वाचयितुं प्रारब्धः, यदुक्तं श्रीकल्पसूत्रावचूरौ, तथाहि-'केचित्तु इदमाहुः, | यत्-यस्कालातिक्रमे ध्रुवसेननृपस्य पुत्रमरणार्तस्य समाधये आनन्दपुरे सभायां अयं ग्रन्थो वाचयितुं प्रारब्ध' इति । अन्यत्र तु सर्वसम्मतचिरन्तनग्रन्थेषु कुत्रापि वाचनानियमो न कृतः पूर्वसूरिभिः, प्रत्युत निशीथचूर्णी प्रोक्तमस्ति 'ये नववाचनाभिः कल्पं वाचयन्ति ते पार्श्वस्थाः' इति, अत एव ऐदंयुगीना गीतार्थाः प्रतिगच्छं स्वपरम्परया यथारुचिवाचनां विदधानाः सन्ति । न च वाच्यं-वयं मूलविध्यनुसारेण पञ्चदिनानि कल्पं वाचयम्तो नववाचनानियम कुर्वाणाः स्मः,
कथं ?, तद्विधिलेशस्यापि अभावात् कथं तदनुसारिता ?, कथं ? इत्याइ-मूलविधौ रात्री पार्श्वस्थपार्श्व श्रवणं, साम्प्रतं तु दिवसे; पूर्व तु गृहस्थादीनां असमक्षं, al सम्प्रति तु तत्समक्षं पूर्व तु एकवारं, अधुना तु दिवसमध्येऽपि वारद्वयं वाचनं । अथ ये नववाचनातोऽधिकवाचनावाचने जिनाज्ञाबाह्यस्वं वदन्ति तेषामपि Xइदं अज्ञानविजम्भितं, यतोऽत्र सूत्रोक्तविधिविपरीतत्वेन गीतार्थाचरणतो गच्छपरम्परा वर्तते । पुनः श्रीहीरविजयसूरिप्रसादीकृतप्रश्नोत्तरसमुच्चये तच्छिष्य - पं० कीर्तिविजयगणिसमुच्चिते अन्धे पं० लर्षिगणिकृतप्रश्नाधिकारे प्रथमप्रश्नेऽपि प्रोक, तथाहि-'नवक्षणैः कल्पसूत्र वाच्यते, कैश्चिदधिकैरपि वाच्यते,
॥८ ॥ तदक्षराणि क सन्ति ? इति, तत्रोत्तरं-कल्पसूत्र नवक्षणैर्वाच्यते परम्परातः अन्तर्वाच्यमध्ये नवक्षणविधानाक्षरसद्भावाञ्चेति" । अत्रापि नववाचनावाचने गच्छपरम्परा एव प्रत्युत्तरिता, न तदक्षराणि दर्शितानि । अन्तर्वाच्यं तु तस्कृतं आधुनिकं च । तत इदं रहस्यं आगतं-मूलपक्षः कोऽपि नास्ति |
For Private And Personal Use Only