________________
Shri Mahavir Jain Aradhana Kendra
www.kobetirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वरं सप्तम्यामेवाष्टमीकृत्यं” इति सामाचारीशतके ६९ पत्रे, तथा "अष्टमीहानावष्टमीकृत्यकरणस्य स्थानान्तरानवाप्ती सप्तम्यान्तस्तद्भोगबहुत्वसद्भावात्सप्तमीकृत्यस्येवानन्यगत्या (तत्) स्थानतया गीतार्थैरङ्गीकारात् । ननु तर्हि चतुर्दशीहानौ त्रयोदश्यामपि तद्वदेव पाक्षिककृत्यं चतुर्दशीतिथिविधेयं कथं विधेयतया नाद्रियते ? इति चेन्न, चतुर्दश्यां पाक्षिककृत्यस्य कालिकाचाराचरितत्वात् , पौर्णमास्यां तु पाक्षिककृत्यकरणमागमानुगामि, तेन चैत्यपरिपाटि-मुनिजनवन्दन-पाक्षिकाति|चारालोचना-ऽऽलोचनास्थानीयचतुर्थतपोविशेषविधानादिपाक्षिककृत्यं पाक्षिकपर्वत्वेनाचरितायाश्चतुर्दश्या हानी सदागमा| विगीतपूर्णिमारूपपाक्षिकतिथी कार्यमिति सम्प्रदायः । सत्यां च भूतेष्टायां (चतुर्दश्यां ) पूर्वाचार्याचरणाविशेषात्तस्यामेव पाक्षिककृत्यमनुसन्धेयं, आचरणाया अपि कथञ्चिदागमानुपातित्वात् । त्रयोदश्यां तु तत्कृत्यकरणे आगमाचरणयोरन्यतरस्याप्यनाराधितत्वं स्यात्" इति पौषधषद्विशिकावृत्तौ २७ पत्रे।। | एवं पञ्चदशी विनाऽन्यतिथीनां वृद्धावपि पौर्वात्यायामेव पाक्षिकादीनि सर्वाण्यपि धर्मकार्याणि विधेयानि, तस्यामेव सूर्योदयास्तमनयोद्वयोरपि लभ्यमानत्वात् , यदुक्तं-"तिहिवुड्डीए पच्चक्खाण-कल्लाणयन्हवणाइसु पढमा तिही घेतवा" इति जिनपतिसूरिभिः स्वसामाचार्या, तथा “सबतिहिवुड्डीए पुण पढमा चेव पमाणं, संपुण्ण त्ति काउं" इति जिनप्रभसूरिवरैर्विधिमार्गप्रपायां, एवमेव | "उदयतिथित्वे उभयत्र वर्तमानत्वेन, साम्येऽपि उदयास्तमनयोद्धयोस्तत्र वर्तमानत्वात्सम्पूर्णतिथित्वाच प्रथमतिथेराधिक्येन मान्यत्वं, प्रथमतिथिं सम्पूर्णभोगां विहाय अल्पभोगाया उत्तरतिथेरङ्गीकरणे कारणाभावः" इति सामाचारीशतके ६९ पत्रे ।
यथा हानौ तथा वृद्धावपि पञ्चदश्याः पाक्षिक औदायिकीचतुर्दश्यामेव विधेयं, न पुनर्मिध्याकल्पनया चतुर्दशीत्वेन कल्पितायामा
EXOXOXOXOXOXOXOXOXOXOXOKe
For Private And Personal use only