SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir XOXOXO पर्युषणा पर्युषणा, ततश्चतुर्दश्यां पाक्षिकाणि घटन्ते” इति जीवानुशासनवृत्तौ (२१ पत्रे) श्रीदेवसूरयः । कल्पार्थ- ततः सिद्धू-आचरणानुगतं चतुर्दश्यां पाक्षिकं साम्प्रतं, परं चतुर्दश्याः पञ्चदश्या वा क्षये त्रयोदश्यां तत्करणं त्वागमाचरणयोरन्यतर- बोधिन्याःXस्याप्यनाराध्यत्वं, अतः सत्यामौदयिकीचतुर्दश्यां तस्यामेव तत्करणमुचितं, अन्यथा युगप्रधानाचरणाविलोपनेन निह्नवत्वावाप्तिप्रसङ्गात् , व्या०६ यदुक्तं-"आयरियपरंपरएण, समागयं जो उ छेयबुद्धीए । कोवेइ (कोपयति-दूषयति) छेयवाई, जमालिनासं स नासि हिति ॥१॥” इति सूत्रकृताङ्गनियुक्तौ त्रयोदशाध्ययने । ॥११८॥ | अत एवोक्तं-"चउद्दसीहाणीए मूलपक्खो त्तिऽमावसा-पुण्णिमासिणीसु (पक्खियं) कीरइ” इति जिनपतिसूरिभिः स्वसामा- | चायाँ । तथा "चाउमासियचउद्दसीहासे पुण्णिमा जुज्जइ, तेरसिगहणे आगमआयरणाणं अन्नतरंपि नाराहियं होजा" इति | जिनप्रभसूरिभिर्विधिमार्गप्रपायां । तथा "पूर्णिमायाः पर्वतिथित्वेन मूलपक्षे-सिद्धान्ते प्रत्याख्यातत्वात्पूर्णिमायामेव तत्सङ्गतिमङ्गति । अपि च-पर्वभूतां पूर्णिमां अमावास्यां वा विहाय अपर्वभूतायां त्रयोदश्यां कथं पाक्षिककृत्यं क्रियेत ?, को नाम | विज्ञंमन्यो निकटवर्तिनी बृहत्प्रवाहां गङ्गां तीर्थभूतां विहाय अतीर्थभूते कूपे स्नानं समाचरेत् । पुनः त्रयोदश्यां तिथ्यां तत्करणे तु आगमाचरणयोद्धयोर्मध्ये एकस्यापि पक्षस्य अनाराधितत्वं स्यात्" इति समयसुन्दरोपाध्यायैः सामाचारीशतके ६८पत्रे । नन्वेवं तर्हि किमिति द्वितीयापञ्चम्याद्यन्यपर्वतिथिक्षयेऽकृत्वा पाश्चात्यायां तृतीया-षष्ठ्यादितिथौ तदाराधनं प्रतिपच्चतुर्थ्यादिपौर्वात्या| यामेव क्रियते ?, उच्यते-तत्रापर्वत्वेन पौर्वात्य-पाश्चात्ययोर्द्वयोरपि तिथ्योः समानत्वेऽपि पौर्वात्यायां तत्तत्पर्वतिथिभोगस्योपलभ्यमानत्वा-1 त्पाश्चात्यायां तु तद्गन्धस्याप्यनुपलम्भात् , यदुक्तं "नवमीतिथेः अपर्वतिथित्वेन सप्तम्या साम्येऽपि अष्टमीसत्कभोगबहुलत्वेन सूत्रं १३२ प्रभुनिवाणे पाक्षिक| चर्चा, | "पक्खियाईणि"त्ति ठाणावृत्तिपाठस्य XoxoXXXX ॥११८॥ For Private And Personal Use Only
SR No.020546
Book TitleParyushana Kalpsutram
Original Sutra AuthorN/A
AuthorKesharmuni, Buddhisagar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1942
Total Pages435
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy