SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobafrth.org Acharya Shri Kailassagarsuri Gyanmandir शब्द एवोपलभ्यते, तथाहि-"पक्खिअपोसहिएK, कारयति तवं सयं करोति च" इत्येतद्व्यवहारभाष्यगाथाशव्याख्यायां "पाक्षिके-16 अर्द्धमासपर्वणि, पौषधिके च-अष्टम्यादिषु पर्वसु परं तपः कारयति स्वयमपि करोति च" इति श्रीमन्मलयगिर्याचार्याः । तथा "पक्खिए चउत्थं न करेइ ?, मासगुरु" इति व्यवहारचूर्णी । पुनः “पक्खिए चउत्थं न करेति, तो पच्छित्तं" इति निशीथचूर्णौ । __अन्यच्च "चतुर्दश्युपवासश्च पर्वतिथितपोविधानं” इति जीवानुशासनवृत्तिवाक्याच्चतुर्दशी-पाक्षिकतपसोरैक्यत्वभ्रमो दूरापास्त एवेति ।। एवमनेकैः शास्त्रप्रमाणैर्युक्त्याऽपि च सिद्धमेतत्, यदुत-पाक्षिकं पञ्चदश्यामेवागमानुगतं, आचरणानुगतं पुनश्चतुर्थीपर्युषणाप्रवृत्त्यनन्तरं चतुर्दश्यामिति, तथैव सर्वमान्यप्रवचनाधारगीतार्थरचितशास्त्रेषूपलभ्यमानत्वात्तथाहि-"एवं च कारणेणं अजकालगायरिएहिं चउत्थीए पज्जोसवणं पवत्तियं, समत्तसंघेण य अणुमन्नियं । तवसेण य पक्खियाईणि वि* चउद्दसीए आयरियाणि, अन्नहा आगमुत्ताणि पुण्णिमाए x" इति कलिकालसर्वज्ञश्रीमद्धेमचन्द्रसूरिगुरुश्रीमद्देवचन्द्रसूरयो मूलशुद्धिरित्यपरनामठाणाप्रकरणवृत्तौ, तथैव "पूज्या इहार्थे वदन्ति-यदा सांवत्सरिक पञ्चम्यामासीत्तदा पाक्षिकाणि पश्चदश्यां सर्वाण्यभूवन । xxx साम्प्रतं चतुर्थ्यां | न चात्र “यत्तु कापि ठाणावृत्ती · तम्वसेण पक्खियाईणि चउहसीए' इत्यादिलिखितं दृश्यते, तन्त्र राकारतेन केनचित्पाठः परावृत्त्य लिखितो, जीर्णादर्शेषु | तथाऽनुपलम्भादित्याद्यस्मदीयचिरन्तरनाचार्यैरपि गुरुतत्वप्रदीपादौ ज्ञापितमस्ति" इति प्रवचनपरीक्षायुक्तिः समाधयणीया, गुरुतत्त्वप्रदीपे सर्वथैवैतत्पाठचार्चिक्याभावत्वात्ततोऽपि चिरन्तनैस्तत्पूर्वजैः कुलमण्डनाचायः खोपत्रे विचारामृतसङ्ग्रहे (पत्र २४) “पक्खियाईणि" इत्यादिकस्यैव ठाणावृत्तिपाठस्सास्तित्वस्वीकारात् । । ___Xननु 'पुषिणमाए' इति शब्देन पूर्णिमैव व्यपदिश्यते, पाक्षिकाणि तु प्रतिपक्षभाविवादमावास्यायामपि भवन्ति, ततः कर्ष 'पक्सियाईणि' इति शब्दस्य पुषिणमाए' इति शब्देनार्थसङ्गतिः । इति चेदुच्यते न केवलमत्र पुण्णिमाए' इत्यनेन शुक्लपञ्चदश्येव गृहीता, किन्तु चन्द्रकलाया वृद्धि हानि वा अपेक्ष्य पूरण-पूर्ण, पूर्णेन निर्वृत्ता पूर्णिमा' यद्वा,पूर्णि-पूर्ति मिमीते इति पूर्णिमा' अनया व्युत्पत्त्या चन्दकलाहानेर्मापकत्वादमावास्याऽपि गृहीता भवति ग्रन्थलाघवाय 'पुषिणमाए'इत्येकेनैव शब्देन,अतो न काऽप्यसङ्गतिः। For Private And Personal Use Only
SR No.020546
Book TitleParyushana Kalpsutram
Original Sutra AuthorN/A
AuthorKesharmuni, Buddhisagar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1942
Total Pages435
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy