________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्याख्यया पूर्णिमापाक्षिकनिषेधः स्वीक्रियते चेत्तर्हि प्रानिर्दिष्टायाः पाक्षिकशब्दव्युत्पत्तेरसङ्गतिर्भवति । अन्यच्च यद्यत्र पूर्णिमाशब्देन चतुमसकय पूर्णिमैवाराध्यत्वेन प्राह्या स्यात्तर्हि उद्दिष्टाशब्दनिर्दिष्टाऽमावास्याऽपि काचिद्व्यक्तिगतैव ग्राह्या, न तु सर्वाः । यदि चामावास्याः सर्वा आराध्यास्तर्हि पूर्णिमया किमपराद्धं ?, येन चतुर्मास कत्रयपूर्णिमैवाराध्यत्वेन गृह्यते, पर्वत्वेन साम्यत्वादुभयोरपि तिथ्योः । किञ्च 'पूर्णिमापाक्षिकनिषेधिकेयं शीलाङ्काचार्यीया व्याख्या' इति तु तदैव स्वीकर्त्तुं शक्यते यदा सर्वमान्ये कस्मिन्नध्यागमवृत्त्यादौ "चतुर्दश्यां पाक्षिकप्रतिक्रमणं" यद्वा "पाक्षिकप्रतिक्रमणतिथिश्चतुर्दशी” इत्येवंरूपाया आज्ञायाः समुपलब्धिर्भवेत्, नो वंरूपाऽऽज्ञा काप्युपलभ्यते ।
ननु व्यवहारभाष्यचूर्णौ वृत्तावपि च पाक्षिकशब्देन चतुर्दशी साक्षान्निर्दिष्टा ततः कथं पञ्चदश्यां पाक्षिकमिति चेन्मैवं अभिप्रायापरिज्ञानात् । यतस्तत्राचार्याणां विद्यासाधनकालनिरूपणायैव न तु पाक्षिकप्रतिक्रमणाय, पाक्षिकशब्देन चतुर्दशी निर्दिष्टा । साऽपि कृष्णैव, न तु शुक्ला । पश्यतां - " किण्हपक्खस्स चउदसीए विज्जासाहणोवयारो” इति व्यवहारचूणों, तथा "मासस्य मध्यं पाक्षिकं पक्षेण निर्वृत्तं ज्ञातव्यं तच्च कृष्णचतुर्दशीरूपमवसातव्यं, तत्र प्रायो विद्यासाधनोपचारभावात्” इति व्यवहारभाष्यवृत्तौ । नात्र पाक्षिकप्रतिक्रमणकर्त्तव्यताया गन्धोऽपि तथाप्यनेन पाठेन चतुर्दश्यामेव पाक्षिकं प्रतिक्रमणमिति स्थाप्यते चेत्तदा कृष्णचतुर्दश्यामेव तद्विधेयं स्यात्, न शुक्लचतुर्दश्यां कृष्णचतुर्दश्येवात्र पाक्षिकशब्देन व्यपदिश्यमानत्वात् । यद्वा "पूज्यास्तु वदन्ति - उपचार - शब्देन पूर्वसेवाऽत्र भण्यते, ततः कृष्णचतुर्दश्यां पूर्वसेवा - नूतनमन्त्रग्रहणजपलक्षणा क्रियते, पाक्षिके च- पञ्चदशी लक्षणे परिपाटि :- परावर्त्तनं विधीयते, इत्थं व्याख्याने पौर्णमास्यपि पाक्षिकं भवति, परिपाटी च (पञ्चदश्यां ) घटते । शुक्लचतुर्दश्यां तु पूर्वसेवा न क्रियते इति सर्वजनप्रतीतं, कृष्णचतुर्दश्यां च सस्फुरो मन्त्रो भवति, अतस्तत्र पूर्वसेवा” इति जीवानुशासनवृत्तौ
For Private And Personal Use Only