SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobasith.org Acharya Shri Kailassagarsuri Gyanmandir सा चरमा रयणी, तं रयणि च णं समणे भगवं महावीरे कालगए विइकते समुजाए छिन्न-ज्जाइ-जरा-मरण-बंधणे सिद्ध बुद्ध मुत्ते अंतगडे परिनिवुडे सव्वदुक्खप्पहीणे। चंदे नाम से दुच्चे संवच्छरे, पीइवद्धणे मासे, नंदिवद्धणे पक्खे। अग्गिवेसे नाम से दिवसे, उवसमित्ति कबहुलस्य पञ्चदश्याः 'पक्षो दिवसः, या सा 'चरमा' पक्षस्यान्त्या रजनीx, तस्यां रजन्यां च श्रमणो भगवान् महावीरः 'कालगतः' कायस्थिति-भवस्थित्यो कालाद्गतः 'व्यतिक्रान्तः' संसारान्निर्गतः 'समुद्यातः' अपुनरावृत्त्या सम्यगूर्व गतः, नहि सुगतादिवत्पुनर्भवावतारी, छिन्नानि जाति-जरा-मरण-बन्धनानि-तद्धेतुभूतानि कर्माणि येन, 'सिद्धः' साधितार्थः 'बुद्धोऽवगततत्त्वार्थः, मुक्तो-भवोपग्राहिकर्मबन्धनेभ्यः, अन्तकृत्सर्वदुःखानां परिनिर्वृतः' कर्मकृतसकलसन्तापरहितः, सर्वेभ्यः-शारीरमानसेभ्यो दुःखेभ्यः प्रहीणो-रहितोऽभूत् । __ अथ भगवतो निर्वाणवर्षादेः सैद्धान्तिकानि नामान्याह-युगे हि पञ्च संवत्सरास्तत्र तृतीयपश्चमावभिवर्द्धिताख्यौ, प्रमाणं प्रत्येकमेतयोरुयशीत्यधिकानि त्रीण्यहोरात्रशतानि,चतुश्चत्वारिंशच्चद्वाषष्टिभागादिनस्य (३८३.४) शेषास्त्रयश्चन्द्राख्याः, प्रमाणं प्रत्येकमेतेषां चतुष्पश्चाशदधिकानि त्रीण्यहोरात्रशतानि, द्वादश च द्वाषष्टिभागा |दिनस्य (३५४११)। तेषु चन्द्रनामा स द्वितीयः संवत्सरो, यत्र भगवानिवृतः, प्रीतिवर्द्धनो मासः, जैनशैल्या * x यदि चतुर्दश्यामेव पक्षान्तः स्यात्तर्हि नालिखिष्यदत्र “जा सा चरमा रयणी"ति, अतः सिद्धं “पक्षस्यान्ते पाक्षिकं” इति व्युत्पत्तिः पञ्चदशीपाहिकैव । १-अभिनन्दनः-सुप्रतिष्ठो-विजयः-प्रीतिवर्द्धनः श्रेयान-शिशिर-शोभनो-हैमवान-वसन्तः-कुसुमसम्भवो-निदाघोचनविरोधी चेति श्रावणादिद्वादशमासाः सिद्धान्तोक्काः। For Private And Personal Use Only
SR No.020546
Book TitleParyushana Kalpsutram
Original Sutra AuthorN/A
AuthorKesharmuni, Buddhisagar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1942
Total Pages435
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy