SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobafrth.org Acharya Shri Kailassagarsuri Gyanmandir ते णं काले णं ते णं समए णं समणे भगवं महावीरे अट्ठियगाम नीसाए पढम अंतरावासं वासावासं उवागए, चंपंच पिट्ठिचंपंच 'जरामयं वा' यावज्जीवमप्यग्निहोत्रं कुर्यान्न तु नियमेन, तथा च निर्वाणसाधकक्रियारम्भकालास्तित्वमनिवार्यमेव, अतः सिद्धं-यः कश्चित्स्वर्गाद्यर्थी स यावज्जीवमप्यग्निहोत्रं कुर्यात्, यस्तु निर्वाणार्थी सोऽग्निहोत्रं विमुच्य निर्वाणसाधकक्रियामारभेत, इति श्रुत्वा व्यपगतसन्देहइछात्रशतन्त्रयेण सह प्रव्रजित इत्येकादशो गणधरः ॥ al एवं चतुश्चत्वारिंशच्छतद्विजाः प्रव्रजितास्तेषु मुख्यानामेकादशानां निषद्यात्रयेण x त्रिपदीग्रहणपुरस्सरं द्वादशाङ्ग-चतुर्दशपूर्वरचना गणधरपदप्रतिष्ठा च । तत्र द्वादशाङ्गीरचनानन्तरं स्वामी गणधराणां तदनुज्ञां करोति, शक्रश्च दिव्यचूर्णभृतं दिव्यं वज्रमयस्थालं गृहीत्वा प्रभोः सन्निहितो भवति, ततः खामी समुत्थाय सम्पूर्णा चूर्णमुष्टिं गृह्णाति, गौतमप्रमुखाश्चैकादशापि गणधरा ईषदवनता कृताञ्जलिपुटाश्च क्रमशस्तिष्ठन्ति, देवा वाद्यनिघोषादिकोलाहलं निरुध्य सावधानाः शृण्वन्ति, ततः प्रभुः 'गौतमस्य द्रव्य-गुण-पर्यायैस्तीर्थमनुजानामी'ति भणंशूर्णास्तन्मस्तके क्षिपति, ततो देवाचूर्णादिवृष्टिं कुर्वन्ति।गणं च प्रभुः सुधर्मस्वामिनं पुरस्कृत्यानुजानाति। "चन्दनाऽपि ततस्तत्रो-त्पाट्यानीता सुरैः स्वयम्" इति पद्मानन्दकाव्यवचनाचन्दनाऽपि तत्रैव प्रवजिता अभूदिति गणधरवादः।। १२६-तस्मिन् काले तस्मिन् समये श्रमणो भगवान महावीरः अस्थिकग्रामस्य (षष्ठ्यर्थे द्वितीयाऽत्र) निश्रया __x प्रणिपत्य पृच्छाया नाम निषद्या, तत्र गौतमखामी प्रभुं प्रणम्य पृच्छति कथ्यतां भगवन् ! कि तत्व'मिति, ततो भगवान् भणति-"उप्पन्नेह वा" । पुनस्तथैव पृटे पाह-"विगमेह वा"! पुनरप्येवं कृते भणति-"धुवेह वा" । एतास्तिस्रो निषद्या । आसामेव प्रात्या 'यत्सत्तदुत्पादव्ययधौम्ययुक्त, अन्यथा वस्तुनः सत्ताऽयोगात् Xइति तेषां गणधराणां प्रतीतिर्भवति, ततव ते प्राम्भवभावितमतयो बीजबुद्धित्वाद् द्वादशाजमुपरचयन्ति । For Private And Personal Use Only
SR No.020546
Book TitleParyushana Kalpsutram
Original Sutra AuthorN/A
AuthorKesharmuni, Buddhisagar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1942
Total Pages435
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy