________________
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www.kobaith.org
पर्युषणा कल्पार्थबोधिन्याः
॥१०९॥
___ "तज्जीवतच्छरीरे, सन्दिग्धं वायुभूतिनामानम् । ऊचे विभुर्यथास्थं, वेदार्थ किं न भावयसि ? ॥१॥". सूत्रं १२५
यतो "विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय०" इत्यादिवेदपदैर्भूतेभ्यो भिन्नो जीवो नास्तीति ध्वन्यते, पुनः गणधरवादे "सत्येन लभ्यस्तपसा ह्येष ब्रह्मचर्येण नित्यं ज्योतिर्मयो विशुद्धो, यं पश्यन्ति धीरा यतयः संयतात्मानः" इति, अस्यार्थः-एष | देहभिन्नाज्योतिर्मयो विशुद्ध आत्मा सत्येन तपसा ब्रह्मचर्येण च नित्यं 'लभ्यः' ज्ञेयः, यमात्मानं धीराः संयतात्मानो त्मसिद्ध्यायतयः पश्यन्ति ज्ञानचक्षुषा, एभिस्तु वेदपदैः स्पष्टमेव भूतेभ्यो भिन्नो जीवः प्रतीयते, ततो यच्छरीरं तदेव वायुभूतिसंजीवोऽन्यो वा ? इति तव सन्देहः, परमविचारितोऽयं, यस्मात् "विज्ञानघने"त्यादिपदैरप्यस्मदुक्तप्रकारेणार्थे कृते देहापास्तिः प्रगट एवात्मसद्भाव इति श्रुत्वा विगतसन्देहः सोऽपि पञ्चभिइछात्रशतैः सह प्रव्रजित इति तृतीयो गणधरः ॥ ३॥ | “पञ्चसु भूतेषु तथा, सन्दिग्धं व्यक्तसञ्ज्ञकं विबुधम् । ऊचे विभुर्यथास्थं, वेदार्थ किं न भावयसि ? ॥१॥” वेदपदानि-"खमोपमं वै सकलं इत्येष ब्रह्मविधिरञ्जसा विज्ञेय" इति, अर्थात्-'वै निश्चितं सकलमेतत्पृथिव्यादिकं खप्नोपमं असत्, अनेन वेदवाक्येन तावद्भूतानामभावो ध्वन्यते, तथा-"पृथ्वी देवता आपो देवता" इत्यादिकैस्तु भूतसद्भावः, ततः किं तत्त्वमत्रेति तव सन्देहः, परमविचारितोऽयं । यस्मात् "खमोपमं वै सकलं" इत्यादीनि पदानि अध्यात्मचिन्तायां कनककामिन्यादिसंयोगस्यानित्यत्वाद्विपाककटुकत्वाच तदासक्तिनिवृत्तिसूचकानि,
॥१०९॥ न तु भूतनिषेधकानि, इति श्रुत्वा सोऽपि छात्रपश्चशतैः सह प्रव्रजित इति चतुर्थो गणधरः ॥ ४ ॥ “यो यादृशः स तादृश, इति सन्दिग्धं सुधर्मनामानम् । ऊचे विभुर्यथास्थं, वेदार्थ किं न भावयसि ? ॥१॥"
For Private And Personal Use Only