SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobairth.org Acharya Shri Kailassagarsuri Gyanmandir वेदपदानि-"पुरुषो वै पुरुषत्वमश्नुते, पशवः पशुत्वम्" इत्यादीनि भवान्तरसादृश्यप्रतिपादकानि, तथा "शृगालो वै एष जायते, यः सपुरीषो दह्यते" इत्यादीनि च भवान्तरवैसादृश्यप्रतिपादकानि दृश्यन्तेऽतोऽत्र किं तत्त्वमिति तव सन्देहः, परं नायं युक्तो विचारः, यतः-"पुरुषो वै पुरुषत्वमश्नुते" इत्यादीनि वेदपदानि न नियमेन भवान्तरसादृश्यप्रतिपादकानि, किन्तु-'मनुष्योऽपि कश्चिदिहजन्मनि निसर्गतो मार्दवार्जवादिगुणसम्पन्नो मनुष्यायुःकर्म बद्धा मृतः पुनरपि मनुष्यो भवतीत्यर्थप्रतिपादकानि। तथा च "पुण्यः पुण्येन कर्मणा, पापः पापेन कर्मणा" इत्यादिवेदवाक्यैर्मादवार्जवादिगुणयुतस्य पशोरपि मनुजत्वे देवत्वे वा-महारम्भादिपापस्थानासक्तस्य मनुजस्यापि च पशुत्वे नारकत्वे वा कथं नोत्पादो भवेत् ?, भवेदेव । अथ च यथा शालिबीजाद्गोधूमाकुरोत्पत्तरसम्भवस्तथा मनुष्यत्वात्पशुत्वभवनासम्भवः, इति या युक्तिस्तव चित्ते प्रतिभाति साऽप्यसुन्दरा, यतो गोमयादिभ्यो वृश्चिकाद्युत्पत्तेर्दशनादनिवार्यैव कार्यकारणयोर्भिन्नता, इति श्रुत्वाऽसन्दिग्धः सोऽपि छात्रपञ्चशतःसह प्रव्रजित इति पञ्चमो गणधरः५ “अथ बन्धमोक्षविषये, सन्दिग्धं मण्डिताभिधं विवुधम् । ऊचे विभुर्यथास्थं, वेदार्थ किं न भावयसि? ॥१॥" । वेदपदानि-“स एष विगुणो विभुर्न बध्यते संसरति वा, न मुच्यते मोचयति वा, न वा एप बाह्यं अभ्यन्तरं वा वेदेति" इत्यादीनि, तत्र ‘स एष' अधिकृतो जीवो 'विगुणः सत्त्वादिगुणरहितो विभुः सर्वत्र व्यापको 'न बद्ध्यते' पुण्य|पापाभ्यां न युज्यते संसरति वा, अत्रापि नेत्यनुवर्तते। 'न मुच्यते' कर्मणा न वियुज्यते, बन्धाभावात्, नाप्यन्यं मोचयति, अकर्तृत्वात् । न वा एष 'बाह्यं आत्मभिन्नं पुद्गलादिकं मदाहङ्कारादिकं चाभ्यन्तरं 'वेदेति' For Private And Personal Use Only
SR No.020546
Book TitleParyushana Kalpsutram
Original Sutra AuthorN/A
AuthorKesharmuni, Buddhisagar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1942
Total Pages435
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy