________________
Shri Mahavir Jain Aradhana Kendra
पर्युपणा० कल्पार्थबोधिन्याः व्या० ६
1180611
1000* X
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
" वह्निः शीतः स्थिरो वायुः सम्भवेन्न तु बान्धवः । हारयेदिति पप्रच्छ, लोकानश्रद्दधभृशम् ॥ २ ॥” "ततश्च निश्चये जाते, चिन्तयामास चेतसि । गत्वा जित्वा च तं धूर्त्त, वालयामि सहोदरम् ॥ ३ ॥” “सोऽप्येवमागतः शीघ्रं, प्रभुणाऽऽभाषितस्तथा । सन्देहं तस्य चित्तस्थं, व्यक्तीकृत्यावदद्विभुः ॥ ४ ॥” “हे गौतमाग्निभूते ! कः, सन्देहस्तव कर्मणः । कथं वा वेदतत्त्वार्थ, विभावयसि ? न स्फुटम् ॥ ५ ॥” वेदपदानि च-“पुरुष एवेदं त्रिं सर्वं यद्भूतं यच्च भाव्यं, उतामृतत्वस्येशानः, यदनेनातिरोहति यदेजति यन्नेजति यद्दूरे यदु अन्तिके यदन्तरस्य सर्वस्य यदु सर्वस्यास्य बाह्यतः" इति । तत्र 'पुरुष एव' आत्मैव, एवकारः पुरुषव्यतिरिक्तस्य कर्मेश्वरादेर्निषेधार्थं, 'ग्निं' इति वाक्यालङ्कारे, इदं प्रत्यक्षं दृश्यमानं चेतनाचेतनरूपं सर्वं यद्भूतं' अतीतं यच्च 'भाव्यं' भविष्यन्मुक्तिसंसारावपि स पुरुष एव, 'उत' शब्दः समुच्चये, 'अमृतत्वस्य' अमरणभावस्य मोक्षस्य 'ईशानः ' खामी, लुप्तचकार निर्देशाद्यच 'अन्नेन' आहारेण 'अतिरोहति' अतितरां वृद्धिमुपैति तथा यदेजति चलति पश्वादि, यन्नेजति - न चलति पर्वतादि, यहूरे मेर्वादि, “यदु" इत्यत्र 'उ' अवधारणे, ततो यदेवान्तिके-समीपे, तथा यद् 'अन्तः' मध्येऽस्य - चेतनाचेतनस्य, सर्वस्य यदेवास्य सर्वस्य बाह्यतः, तत्सर्वं पुरुष एवेत्यनेन वेदवाक्येन यन्नरामरतिर्यक पर्वत पृथिव्यादिकं वस्तुजातं दृश्यते तत्सर्वमात्मैव ततः कर्मादेर्निषेधः स्पष्ट एव, अन्यच - न प्रत्यक्षादिगोचरं कर्म । किञ्च - अमूर्त्तस्यात्मनो मूर्त्तेन कर्मणा कथमनुग्रहोपघातौ भवतः, न खलु आकाशस्य | चन्दनादिना मण्डनं खड्गादिना खण्डनं वा सम्भवति, ततो नास्त्येव कर्म, परं "पुण्यः पुण्येन कर्मणा, पापः पापेन
For Private And Personal Use Only
सूत्रं १२५ गणधरवादे
प्रभुसमीप
गमनं वायुभूतेस्तरसन्देहनिरासश्च २
॥ १०८ ॥