SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobairth.org Acharya Shri Kailassagarsuri Gyanmandir कथञ्चित्पृथिव्यादिभूतेभ्यस्तद्विकारेभ्यो वा घटादिभ्यः 'समुत्तिष्ठतें उपयोगतयोत्पद्यते, घटादिज्ञानपरिणतो ह्यात्मा घटादिभ्य एव हेतुभूतेभ्यो भवति, घटादिज्ञानोपयोगस्य घटादिवस्तुसापेक्षत्वात् । एवं चैतेभ्यो भूतेभ्यो-घटादिवस्तुभ्यस्तदुपयोगतया जीवः 'समुत्थाय' उत्पद्य पुनस्तान्येवानुविनश्यति, किमुक्तं ?, तस्मिन् घटादिपदार्थे नष्टे व्यवहिते वा आत्माऽपि तदुपयोगरूपतया नश्यति, अन्योपयोगरूपतयोत्पद्यते सामान्यरूपतया वा अवतिष्ठते। ततश्च न प्रेत्यसञ्ज्ञाऽस्ति, कोऽर्थः ?, न प्राक्तनी घटाधुपयोगरूपा सज्ञावतिष्ठते, वर्तमानोपयोगेन तस्या नाशितत्वादिति । तथा “स वै अयमात्मा ज्ञानमयो ब्रह्ममयो मनोमयो वामयः कायमयः XIचक्षुर्मयः श्रोत्रमय आकाशमयो वायुमयस्तेजोमयोऽप्मयः पृथ्वीमयो हर्षमयो धर्ममयोऽधर्ममयो दददमयः" इत्यत्रोक्तं 'दमो दानं दया' इति दकारत्रयं यो वेत्ति 'स जीवः' इत्याद्यैः, पुनः “यथा चारित्रस्तथा भवति, साधुकारी साधुर्भवति पाप| कारी पापो भवति" तथैव "पुण्यः पुण्येन कर्मणा, पापः पापेन कर्मणा" इत्यादिवेदपदैरस्त्येव भूतातिरिक्त आत्मा। किश्च-विद्यमानभोक्तृकमिदं शरीरं, भोग्यत्वात्, ओदनादिवत्, इत्याद्यनुमानेनापि यथा"क्षीरे घृतं तिले तैलं, काष्ठेऽग्निः सौरभं सुमे । चन्द्रकान्ते सुधा यद्वत्, तथाऽऽत्माऽङ्गगतः पृथक् ॥१॥" एवं च वीरवचनैश्छिन्नसन्देहः श्रीइन्द्रभूतिः पञ्चशतच्छात्रपरिवृतः प्रव्रजितः। ततः प्रभुमुखात् "उप्पन्नेइ | वा विगमेइ वा धुवेइ वा" इति त्रिपदीमवाप्य द्वादशाङ्गी रचितवानिति प्रथमो गणधरः ॥ १ ॥ "तं च प्रव्रजितं श्रुत्वा, दध्यौ तद्वान्धवोऽपरः। अपि जातु द्रवेदद्रि-ज्वलेजलमपि कचित् ॥१॥" For Private And Personal Use Only
SR No.020546
Book TitleParyushana Kalpsutram
Original Sutra AuthorN/A
AuthorKesharmuni, Buddhisagar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1942
Total Pages435
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy