________________
Shri Mahavir Jain Aradhana Kendra
www.kobaith.org
Acharya Shri Kailassagarsuri Gyanmandir
पर्युषणा० कल्पार्थबोधिन्याः व्या०६
सूत्रं १२५ गणधरवादे इन्द्रभूति
सन्देहनिरसनं १
॥१०७॥
KXOXOXOXOXOXOXOXOXOX
अविचारितकारित्व-महो!! मे मन्ददुर्द्धियः। जगदीशावतारं य-जेतुमेनं समागतः॥१८॥ अस्याग्रेऽहं कथं वक्ष्ये ?, पार्वे यास्यामि ? वा कथं । सङ्कटे पतितोऽस्मीति, शिवो रक्षतु मे यशः॥ १९॥ कथञ्चिदपि भाग्येन, चेद्भवेदत्र मे जयः। तदा पण्डितमूर्द्धन्यो, भवामि भुवनत्रये ॥२०॥ इत्यादि चिन्तयन्नेव, सुधामधुरया गिरा। आभाषितो जिनेन्द्रेण, नाम-गोत्रोक्तिपूर्वकम् ॥२१॥ हे गौतमेन्द्रभूते ! त्वं, सुखेनागतवानसि?। इत्युक्तेऽचिन्तयद्वेत्ति?, नामापि किमसौ मम ॥ २२॥ यद्वा-जगत्रितयविख्यातं, को वा नाम न वेत्ति? माम् । जनस्याबाल|गोपालं, प्रच्छन्नः? किं दिवाकरः ॥२३॥ प्रकाशयति गुप्तं चेत्, सन्देहं मे मनःस्थितम् । तदा जानामि सर्वज्ञ-* मन्यथा तु न किञ्चन ॥२४॥ चिन्तयन्तमिति प्रोचे, प्रभुः को जीवसंशयः। विभावयसि ? नो वेद-पदार्थ शृणु। तान्यथ॥२५॥ समुद्रोमथ्यमानः किं ?, गङ्गापूरोऽथवा किमु ?। आदि ब्रह्मध्वनिः किंवा?, वीरवेदध्वनिर्बभौ॥२६॥ __ वेदपदानि च-"विज्ञानधन एवैतेभ्यो भूतेभ्यः समुत्थाय पुनस्तान्येवानुविनश्यति, न प्रेत्यसञ्ज्ञाऽस्ति" इति । तत्र 'विज्ञानघनों' गमनागमनादिचेष्टावान् आत्मा, स एव 'एतेभ्यः' पृथिव्यप्तेजोवाय्वाकाशेभ्यो भूतेभ्यः 'समुत्थाय' प्रकटीभूय, मद्याङ्गेषु मदशक्तिरिव, पुनस्तान्येवानुविनश्यति-तत्रैव विलयमामोति, जले बुद्बुद इव । ततो. भूतव्यतिरिक्तस्यात्मनोऽभावात् 'न प्रेत्यसञ्ज्ञाऽस्ति' न मृतस्य पुनर्जन्मास्ति, इत्येतेषां वेदपदानामर्थस्तव मनसि यद्वर्त्तते तदयुक्तं,शृणु तावदेतेषां पदानां सत्यमर्थ-विज्ञानघनो नाम ज्ञानदर्शनोपयोगात्मकं विज्ञानं, तन्मयत्वादात्मा विज्ञानघनः, प्रतिप्रदेशमनन्तज्ञानपर्यायात्मकत्वात्तस्य, स एव विज्ञानघन-उपयोगात्मक आत्मा
ROXOXOXOXOXOXXXXXXX
॥१०७॥
For Private And Personal Use Only