SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir " तावद्गर्जन्ति मातङ्गा, वने मदभरालसाः । शिरोविलग्नलाङ्गुलो, यावन्नायाति केसरी ॥ ५ ॥ मम भाग्य - भराद्यद्वा, वाद्ययं समुपस्थितः । अद्य तां रसनाकण्डू-मपनेष्ये विनिश्चितम् ॥ ६ ॥ लक्षणे मम दक्षत्वं, साहित्ये संहिता मतिः । तर्के कर्कशताऽत्यर्थ, क शास्त्रे नास्ति ? मे श्रमः ॥ ७ ॥ यमस्य मालवो दूरे, किं स्यात् ? को वा वचखिनः । अपोषितो रसो नूनं, किमजेयं ? च चक्रिणः ॥ ८ ॥ अमेयं किमु ? वज्रस्य किमसाध्यं ? महात्मनाम् । क्षुधितस्य न किं खाद्यं ?, किं न वाच्यं ? खलस्य च ॥ ९ ॥ कल्पद्रुणामदेयं किं ?, निर्विण्णानां किमत्यजम् । गच्छामि तर्हि तस्यान्ते, पश्याम्येतत्पराक्रमम् ॥ १०॥” इत्यादि चिन्तयन् प्राप्तः समवसरणभूमौ - "वीरं निरीक्ष्य सोपान-स्थितो दध्यौ स विस्मितः । किं ब्रह्मा ? शङ्करो ? विष्णुः ?, स्कन्दः ? किं वा सदाशिवः ? ॥ ११ ॥ चन्द्रः ? किं, स न, यत्कलङ्ककलितः, सूर्योऽपि नो, तीव्ररुक् । मेरुः ? किं, न, स यन्नितान्तकठिनो, विष्णुः ?, न, यत्सोऽसितः ॥ ब्रह्मा ? किं, न, जरातुरः स च, जरा भीरुर्न, यत्सोऽतनु - शतं दोषविवर्जितोऽखिलगुणाकीर्णोऽन्तिम स्तीर्थकृत् ॥ १२॥ पुनः हेमसिंहासनासीनं, सुरराजनिषेवितम् । आदित्यमिव दुष्प्रेक्ष्यं, दृष्ट्वा | वीरमचिन्तयत् ॥ १३ ॥ कथं मया महत्त्वं हा !!, रक्षणीयं पुराऽर्जितम् । प्रासादं कीलिका हेतोर्भतुं को नाम वाञ्छति ? ॥ १४ ॥ सूत्रार्थी पुरुषो हारं, कस्त्रोटयितुमीहते ? । कः कामकलशं शस्त्रं, स्फोटयेत् ? ठिकरीकृते | ॥ १५ ॥ भस्मने चन्दनं को वा, दहेत् ? दुष्प्रापमप्यथ । लोहार्थी को महाम्भोधौ, नौभङ्गं कर्त्तुमिच्छति ॥ १६ ॥ एकेनाविजितेनापि, मानहानिस्तु का ? मम । जगज्जैत्रस्य किं नाम, करिष्यामि १ च साम्प्रतम् ॥ १७ ॥ For Private And Personal Use Only
SR No.020546
Book TitleParyushana Kalpsutram
Original Sutra AuthorN/A
AuthorKesharmuni, Buddhisagar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1942
Total Pages435
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy